SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobanirth.org Shri Mahavir Jain Aradhana Kendra 244 विशेषा० अथ "वंदे' इत्यस्यार्थ, वक्ष्यमाणमहावीरनमस्कारप्रस्तावना चाह वंदेऽभिवादयेऽभित्थुणामि वा ते तिलोगमंगल्ले । सामण्णवंदणमिणं तित्थयरत्ताविसिहाणं ॥ १.५४ ॥ ___पत्तेयवंदणमिओ संपइ तित्थाहिवस्स वीरस्स । सुयनाणत्थप्पभवो स विसेसेणोवगारि ति ॥ १०५५ ॥ . गाथाद्वयमपि प्रसिद्धार्थम् , नवरं तीर्थकरत्वेनाविशिष्टानामभिमानामृषभादीनां समस्ततीर्थकराणामिदं बन्धनमुक्तम् । 'सुयनाणत्थप्पभवो त्ति' समस्तस्यापि श्रुतज्ञानस्य योऽर्थस्तस्य प्रभवो हेतुरिति ॥ १०५४ ॥ १०५५॥ प्रकारान्तरेणापि महावीरनमस्कारस्य प्रस्तावनामाहतुल्लगुणाणं परिसं नमिऊण जह ससामियं नमइ । तह तुल्लगुणे वि जिणे नमिउं तित्थाहिवं नमइ ॥१०॥ अथवा, यथा तुल्यगुणानां राजादीनां परिषदं समाज दृष्ट्वा कोऽपि सामान्येन सर्वेभ्यो नमस्कृत्य पुनर्विशेषतो निकटीभूय स्वस्वामिनं प्रणमति, तथा तुल्यगुणांस्तीर्थकरानपि सामान्येन सर्वान् नमस्कृत्य सांप्रतं तीर्थाधिपं महावीरं प्रणमति ॥ इत्येकत्रिंशदाथार्थः ॥ १०५६ ॥ . कथम् ?, इत्याह वंदामि महाभागं महामुणिं महायसं महावीरं । अमर-नररायमहियं तित्थयरमिमस्स तित्थस्स ॥१.५७॥ . महावीरं वन्द इति योगः। भागः किलाऽचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागो महाप्रभाव इत्यर्थः, ते सथाभूतम् । तया, मुणति, मनुते, मन्यते वा जगतखिकालावस्थामिति मुनिः, सर्वज्ञत्वाद् महांश्चासौ मुनिश्च महामुनिः । अथवा, मुनयः साधवस्तेषां महान् प्रधानो महामुनिस्तम् । त्रिभुवनव्यापित्वाद् महद् यशोऽस्येति महायशास्तम् । महावीर इत्यभिधानम् । अथवा, 'शूर वीर विक्रान्ती' कपायादिमहाशत्रुसैन्यजयाद् महाविक्रान्तो महावीरः। यदिवा, 'ईर गतौ' कियक्षिपितकर्मसाध्वपेक्षया विशेषत ईरयति क्षिपति तिरस्करोत्यशेषाण्यपि कर्माणीति वीरः । अथवा, विशेषत ईरयति-शिवपदं प्रति भव्यजन्तून् गमयतीति वीरः । यदिवा, १ गाथा १०२५। २ वन्देऽभिवादयेऽभिस्तौमि वा ताखिलोकमशल्यान् । सामान्यवन्दनमिदं तीर्थकरत्वाविशिष्टानाम् ॥ १०५४ ॥ प्रत्येकवन्ननमितः संपति तीर्थाधिपस्य वीरस्य । श्रुतज्ञानार्थप्रभवः स विशेषेणोपकारीति ॥ १०५५ ॥ ३ तुल्यगुणानां परिपदं मत्वा यथा स्वस्वामिनं नमति । तथा तुल्यगुणानपि जिनान् नत्वा तीर्थाधिपं नमति ॥१०५६॥ ४ वन्दे महामार्ग महामुनि महायशसं महावीरम् । अमर-नरराजमहितं तीर्थकरमस्य तीर्थस्य ॥ १०५७ ॥ विशेषतः शिवपदं स्वयमियति गच्छतीति वीरः। अथवा, 'द विदारणे विदारयति कर्मरिपुसंघट्टमिति वीरः । अनन्यानुभूतमहातप:श्रिया वा विराजत इति वीरः । अन्तरङ्गमोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्य व्यापारयतीति वा वीरः । उक्तं च "विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ १॥" महाशासौ वीरश्चेति महावीरस्तम् । तथा, अमर-नराणां राजानः शक्र-चक्रवर्त्यादयस्तैरपि महितः पूजितः, किं पुनः शेषजनैः ।, अनस्तम् । तथा, अस्य वर्तमानतीर्थस्य प्रवर्तकस्तीर्थकरस्तम् । मङ्गल्यम् , महोपकारकं च वन्दे ॥ इति नियुक्तिगाथार्थः ॥ १०५७ ॥ अथ भाष्यम् भागो चिंता सत्ती स महाभागो मैहप्पभावो त्ति । स महामुणी महंतं जं मुणइ मुणिप्पहाणो वा॥१०५८॥ तिहुयणविक्खायजसो महाजसो नामओ महावीरो । विकंतो व कसायाइसत्तुसेनप्पराजयओ ॥१०५९ ॥ ईरेइ विसेसेणं खिवेइ कम्माइं गमयइ सिवं वा । गच्छइ य, तेण वीरो स महं वीरो महावीरो ॥१०६०॥ अमर-नररायमहियं ति पूइयं तेहिं, किमु य सेसेहिं ? । संपइतित्थस्स पहुं मंगल्लं महोवगारिं च ॥१०६१॥ चतम्रोऽप्युक्तार्था एवेति ॥ १०५८ ॥ १०५९ ॥ १०६० ॥ १०६१ ॥ तदेवमर्थप्रणेतुर्मङ्गलार्थ वन्दनं कृतम् , अथ मूत्रकादीनामपि तदाह ऐक्कारस वि गणहरे पवायए पवयणस्स वदामि । सव्वं गणहरवंसं वायगवंसं पवयणं च ॥१०६२ ॥ १ भागोऽचिन्त्या शक्तिः स महाभागो महाप्रभाव इति । स महामुनिर्महान्तं यं जानाति मुनिप्रधानं वा ॥१.५८॥ त्रिभुवन विख्यातयशा महायशा नामतो महावीरः। विक्रान्तो वा कपायादिशत्रसेनापराजयतः ॥ १०५९ ॥ ईरयति विशेषण क्षेपयति कर्माणि गमपति शिवं वा । गच्छति च, तेन वीरः स महान् वीरो महावीरः ॥ १०६०॥ अमर-नरराजमहितमिति पूजितं तैः, किमु च शेषः । संप्रतितीर्थस्य प्रभु माल्यं महोपकारिणमिति ॥ १.६१॥ २ क. ग. 'महाप'। ३ क. ग. 'नपरा'। ४ क. ग. 'मइ य सि'। ५ एकादशापि गणधरान् प्रवाचकान् प्रवचनस्य बन्दे । सर्व गणधरवंश वाचकवंशं प्रवचनं च ॥१०॥२॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy