________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
233
विशेषा०
र्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते; एतच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यमसङ्गादिति । यत्र सन्धिमाप्तौ तं न करोति, दुष्टं वा करोति, असौ संधिदोषः । इति द्वात्रिंशत् सूत्रदोषाः । एतैर्विरहितं यत् तल्लक्षणयुक्तं सूत्रमिति ॥ ४ ॥
तथा अष्टाभि गुणैर्यदुपेतं तल्लक्षणयुक्तं सूत्रमिति वर्तते । ते चेमे गुणाः
" निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उत्तणीयं सोवयारं चं मियं महुरमेव य ॥ १ ॥ "
निर्दोषम् - समस्तोक्ता ऽनुक्तदोषविप्रमुक्तम्, दोषाभावोऽपि चेह गुणत्वेन विवक्षितः । सारवत् - गोशब्दादिवद् बहुपर्यायक्षमम् । हेतुः - अन्वयव्यतिरेकोपपत्तिलक्षणः, तेनान्वितं हेतुयुक्तम् । उपमो-स्प्रेक्षादिभिरलङ्कारैर्विभूषितमलङ्कृतम् । उपनयोपसंहृतमुपनीतम् । अग्राम्यभणितिसंयुक्तं सोपचारम् । वर्णाद्युचितपरिमाणं मितम् । श्रुतिमनोहरं मधुरमिति ॥ १ ॥
अन्यैस्तु कैश्चित् पद् गुणाः सूत्रस्य पठ्यन्ते, तद्यथा
"अप्पाखरमसंदिद्धं सारखं विस्सओमुहं । अत्थोभमणवज्जं च सुतं सव्वण्णुभासियं ॥ १ ॥ "
अत्राह-
- तत्राऽल्पाक्षरम् - बहुसंग्राहकपरिमिताक्षरम्, यथेदमेव सामायिकसूत्रम् । असंदिग्धम् - सैन्धवशब्दवलवण-वसन- तुरङ्गपुरुषाद्यनेकार्थसंशयकारि न भवति । सारवच्वं च पूर्ववत् । विश्वतोमुखं प्रतिमूत्रं चरणानुगोगाद्यनुयोगचतुष्टयव्याख्याक्षमम् ; अथवा, 'अनन्तार्थत्वाद्यतो विश्वतोमुखम्, अतः सारवत्' इत्येवं सारवत्वस्यैव हेतुभावेनेदं योज्यते; अस्मिंश्व व्याख्याने पञ्चैते गुणा भवन्ति । स्तोमकाः- चकार-हिकार- तुशब्द- वाशब्दादयो निपाताः, तैर्निरर्थकैर्वियुक्तमस्तोभकम् । अनवद्यम् - कामादिपापव्यापाराऽमरूपकम् । एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वेऽष्टौ गुणाः प्रोक्ताः, तेऽनन्तरश्लोकोक्तगुणास्तेष्वष्टसु गुणेष्वन्तर्भावयन्ति ; ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणान् पठन्ति तेऽमीभिरेव पूर्वोक्तानामष्टानामपि संग्रहं प्रतिपादयन्ति ।। ९९९ ।।
तदेवंभूतं सूत्रं मूत्रानुगमे उच्चारणीयम् तस्मिंश्रोच्चारितं कदा सूत्रस्पर्शिक निर्युक्तेरवसरो भवति १, इत्याह
Acharya Shri Kailassagarsuri Gyanmandir
गए सुद्धेति निच्छिए तह कए पयच्छेए । सुत्ताला वयनासे निक्खित्ते सुतफासो उ ॥१००० ॥
१. ग. 'मटा' । २ निर्दोषं सारखच हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचारं च मितं मधुरमेव च ॥ १ ॥
३
सारवद विश्वतोमुखम् । अस्तोभमनवद्यं व सूत्रं सर्वज्ञभाषितम् ॥ १ ॥ ४. ग. 'रंगपु' । शुद्ध इति निश्चिते तथा कृते पदे । सूत्रालापकम्यासे निक्षिसे सूत्रस्पर्शस्तु ॥ १००० ॥
सूत्रानुगमावसरत्वात् मृत्रेऽनुगते उच्चारिते सति, यथा- "करेगि भन्ते ! सामाइयं सव्वं सावज्जं जोगं" इत्यादि, तथा, सर्वदोषरहितत्वात् 'शुद्धमिदम्' इत्येवं निश्चिते; तथा व्याख्यानावसरत्वादेव 'करोमि, भदन्त !, सामायिकम्, सावयं, योगम्' इत्यादि कृते तथा, मूत्रालापकानां यथासंभवं नाम स्थापनादिन्यासे निक्षिप्ते न्यस्ते विहिते, ततस्तद्याख्यानार्थ सूत्रस्पर्शिकनिर्युर्व्यापारः ॥ इति द्वात्रिंशद्वाश्रार्थः ।। १००० ॥
एवं च सति किम् ?, इत्याह
एवं सुत्तागमो सुत्तालावगगओ य निक्खेवो । सुत्तप्फासियजुत्ती नया य वचंति समयं तु ॥ १०१ ॥ तदेवं सूत्रानुगोऽनुगममशमभेदः तथा सूत्रालापकगतश्च निक्षेपो निक्षेपद्वारतृतीयभेदः ; तथा, सूत्रस्पर्शिका निर्युक्तिर्निर्युक्यनुगमनृतीयभेदः; तथा, नयाश्च चतुर्थानुयोगद्वारोपन्यस्ताः, समकं युगपत् प्रतिमूत्रं व्रजन्ति गच्छन्तीति ॥ १००१ ॥
आह विनेयः नन्वनुगमोऽयं द्विविधोऽपि भणितः परमसौ तावद् व्याख्यास्वरूपः, तत्र व्याख्यायाः किं लक्षणम् १, इति
सुतं पयं पयत्थो संभवओ विग्गहो वियारो य । दूसियसिद्धी नयमयविसेसओ नेयमणुसुतं ॥ १००२॥
व्याख्यानविधौ प्रस्तुते प्रथमं तावदस्खलितादिगुणोपेतं यथोक्तलक्षणयुक्तं मूत्रमुचारणीयम् । इयं चान्यत्रास्खलितपदोच्चारणरूपा संहिता भण्यते । तत्थ 'पदं' इति पदच्छेदो दर्शनीयः । ततः पदार्थों वक्तव्यः । ततः संभवतो विग्रहः समासः कर्तव्यः । तचालनारूपो विचारः कर्तव्यः । ततो दूषितसिद्धिः- दूषणपरिहारः प्रत्यवस्थानरूपी निरूपणीयः । एवमुक्तणानुत्रं प्रतिभुवं नियमित विशेषतो नयानां मतविशेषैर्व्याख्यानं ज्ञेयम् । इति गाथासंक्षेपार्थः । विस्तरार्थस्तु संहितायाः सूत्रलक्षणाभिधानतो भाषाकारेण वस्तुतोऽभिहित एव ।। १००२ ।।
पदादिगतं त्वमुं स एवाह
१ एवं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिक ( निर् ) युक्तिर्नयाश्च व्रजन्ति समकं तु ॥१००१ ॥ X (नयमतः)
२ सूत्रं पदं पदार्थ संभवतो विग्रहो विचारथ ।। वूषितसिद्धिनंयमत विशेषतो ज्ञेयमनुसृतम् ॥ १००१ ॥
For Private and Personal Use Only