________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
याऽवतारः ।। जयते- जीवानन्यत्वेन जीवाणमपि विविधम् - जाम, नयममाणम् , संख्या
223 विशेषा०
द्रव्य-क्षेत्र-काल-भावभेदाचतुर्विधं प्रमेयम् , प्रमेयचातुर्वैध्याच प्रमाणमपि चतुर्विधम् - द्रव्यप्रमाणम् , क्षेत्रमाणम् , कालभमा. णम् , भावप्रमाणं चेति, द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायवाजीवभावत्वाद् भावप्रमाणे समवतरति । आह- ननु भावममाणमपि त्रिविधम्-गुणप्रमाणम् , नयप्रमाणम् , संख्याप्रमाणं चेति । तत्र सामायिक क समवतरति ? इति । उच्यते- गुणप्रमाणे । ननु गुणप्रमाणमपि द्विविधम्- जीवगुणप्रमाणम् , अजीवगुणप्रमाणं च। तत्र सामायिक क समवतरति ? इति । उच्यते- जीवानन्यत्वेन जीवगुणप्रमाणे । ननु जीवगुणोऽपि त्रिविधः-ज्ञान-दर्शन-चारित्रभेदात् । सत्र क सामायिकस्याऽवतारः । उच्यते- बोधात्मकत्वाद् ज्ञानगुणे । ननु ज्ञानमपि प्रत्यक्षा-ऽनुमानो-पमाना-ऽऽगमभेदाच्चतुर्विधम् , नत्र केदमवतरति । इति । उच्यते- आगमे । ननु सोऽपि लौकिक-लोकोत्तरभेदात् द्विविधः । लोकोत्तरोऽपि मूत्रा-र्थो-भयरूपित्वात् त्रिविध एव, तत् केदं समवतरति ? इति । उच्यते सूत्रा-ऽर्थो-भयभेदात् त्रिविधेऽपि लोकोत्तर आगमे समवतरति, तत्स्वभावत्वात् तत्स्वरूपस्वादिति ॥ ९४६ ॥
एतदेवाह
जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लोउत्तरसुत्तत्थोभयागमे तस्सभावाओ ॥ ९४७ ॥ व्याख्याताथैव ॥ ९४७ ॥ आह- नन्वात्मागमा-ऽनन्तरागम-परम्परागमभेदतोऽपि लोकोत्तरागमस्त्रिविधः, तत् क्वेदमवतरति !, इत्याशङ्कयाह
सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं । एवं अत्ता-णंतर-परंपरागमपमाणम्मि ॥ ९४८ ॥
अत्थेण उ तित्थंकर-गणहर-सेसाणमेवमेवेदं । यथा जीवगुणादिष्वस्यावतारः, एवमात्मा-ऽनन्तर-परम्परागमपयाणेऽप्यवतारो मन्तव्यः । कथम् , इत्याह-मूत्रतो गणधरा
जीवानन्यवतो जीवगुणे बोधभावतो हाने । लोकोत्तरसूत्रार्थोभयागये तस्वभावात् ॥ १४॥ २ श्रनतो गणधारिणौ तरिद्रयाणां तथावशेषाणाम् । एवमामा उनन्तर-परम्परागमप्रमाणे ।। ९.४८॥
अर्धन तु तीर्थदर-गणधर शेषाणामेवमेवेदम् । णामिदमात्मागमः, नरेव तत्मत्रस्य निर्वर्तितत्वात , अत आत्मन एव सकाशादागमनमस्येति कृत्वा । तच्छिष्याणां तु जम्बूस्वाम्यादीनां सामायिकम्त्रमनन्तरागमः, अनन्तरादेव गणधरादागमनमागमोऽस्यति हेतोः। तथाऽवशेषाणां प्रभव-शयंभवादीनामेतत् सूत्रं परम्परागमः मूरिपरम्परयाऽऽगमनमागमोऽस्येति युक्तः। तदेवं मूत्रतो यथासंख्येन गणधरादीनामात्मागमादित्वयोजना कृता ॥९४८॥ अर्थनाप्येवमेवेदं सामायिक यथासंख्येन तीर्थकर-गणधर-शेपजम्बुप्रभृतीनामात्मागमा-ऽनन्तरागम-परम्परागमत्वेन वक्तव्यमिति ॥ ननु नयप्रमाणे समवतारोऽस्य भवति, नवा ? , इत्याशङ्कय गाथोत्तरार्धमाह
मूढनयं ति न संपइ नयप्पमाणेऽवयारो से ॥ ९४९ ॥ 'मंढनइयं सुयं कालियं, न नया समोयरंति इहं' इतिवचनाद् मृढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचार संप्रति श्रुतम् , अतो नयप्रमाणे नाऽस्याऽवतार इति ॥ ९४९ ॥
आहे-ननु कियतः कालादर्थात् कालिकश्रुतेन नयविचारो निषिद्धः१, इत्याह
आसी पुरा सो नियओ अणुओगाणमपुहुत्तभावम्मि । संपइ नत्थि पुहुत्ते होज्ज व पुरिस समासज्ज ॥९५०॥
पुरा पूर्व चरणकरण-धर्मकथा-गणित-द्रव्यानुयोगलक्षणानां चतुर्णामनुयोगानामपृथग्भावे प्रतिमूत्रं चतुर्णापत्यवतारे स नयावतारो नियतो निश्चित आसीत् । सांप्रतं पुनरनुयोगानां पृथक्त्वे
"कालियसुर्य च इसिभासियाई तइया य सूरपन्नत्ती । सव्वो य दिद्विवाओ चउत्थओ होइ अणुओगो ॥१॥" इति वचनात् पार्थक्येन व्यवस्थापने सति नास्त्यसौ नयावतारः। किं सर्वथा , न, इत्याह- भवेत् वा प्राज्ञपुरुषविशेष समासाद्य कोऽपि कियानपीति । इदमुक्तं भवति- श्रीमदार्यरक्षितमूरीन् यावदेकैकस्मिन् सूत्रेऽनुयोगचतुष्टयव्याख्यानम् , नयविचारश्च विस्तरेणाऽऽसीत् । ततश्च तैरेव श्रीमदायरक्षितमूरिभिर्विचारबाहुल्या मुह्यतः शिष्यानवलोक्य चत्वारोऽप्यनुयोगा भेदेन व्यवस्थापिताः, तद्यथा-कालिकश्रुते चरणकरणानुयोग एवं व्याख्येयः, उत्तराध्ययनादिषु धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादिषु गणितानुयोगः, दृष्टिवादे
, मूढनयमिति न संप्रति नयप्रमाणेऽवतारस्तस्य ॥ ९४९॥ २ मूढनयिकं श्रुतं कालिक, न नयाः समवतरन्तीह । । आसीन पुरा स नियतोऽनुयोगानामपृथग्भावे । संप्रति नास्ति पृथक्त्वे भवेद् वा पुरुष समासाद्य ॥ ९५०॥ कालिकश्रुतं चर्षिभाषितानि तृतीया च सूरप्रज्ञप्तिः । सर्वच दृष्टिवादश्चतुर्यको भवत्यनुयोगः ॥1॥
For Private and Personal Use Only