SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsurl Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 206 विशेषा० के पुनस्ते दोषाः ?, इत्याह अत्थरस विसंवाओ सुयभेआओ तओ चरणभेओ। तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा ॥८ मात्रादिहीनाधिक्ये सूत्रस्य भेदः, सूत्रभेदाचाऽर्थस्य विसंवादः, तद्विसंवादे च क्रियारूपस्य चरणस्य विसंवादः, तद्विसंवाद मोक्षाभावः, तदभावे च दीक्षाफल्यमिति । तदेवमुक्तमागमतो द्रव्यावश्यकम् ।। ८६६ ॥ अथ नोआगमतस्तदभिधित्सुराह नोआगमओ जाणय-भव्वसरीरा-ऽइरित्तमावासं । लोइय लोगुत्तरियं कुप्पावयणं जहा सुत्ते ॥ ८६७ ॥ नोआगमतो द्रव्यावश्यकं त्रिविधम्- शशरीरद्रव्यावश्यकम् , भव्यशरीरद्रव्यावश्यकम् , तदुभयव्यतिरिक्तं द्रव्यावश्यक च तत्र सम्यक पूर्वाधीतावश्यक सिद्धशिलातलगतजीवविषमुक्तं मुनिशरीरमनुभूतभावत्वाज्ज्ञशरीरद्रव्यावश्यकम् । यत् पुनरावश्यक ज्ञास्यति, न पुनरिदानी जानाति, तत् सचेतनं देवदत्तादिशरीर योग्यत्वाद् भव्यशरीरद्रव्यावश्यकम् । एतदुभयव्यतिरिक्तं तु मोर गमतो द्रव्यावश्यक त्रिविधम्-लौकिकम् , लोकोत्तरम् , कुमावचनिकं च । तत्र लौकिक राजादीनां मुखप्रक्षालनाथावश्यकम् । लो तरं तु ये इमे श्रमणगुणविषमुक्ता लिङ्गमात्रधारिणः साध्वाभासाः प्रतिपदमनेकान्यसंयमस्थानान्यासेव्योभयकालं प्रतिक्रमणाचावश्य कुर्वन्ति तद् विज्ञेयम् । कुमावनिर्फ तु यत् पाखण्डिनचामुण्डाऽऽयतनोपलेपनायावश्यक कुर्वन्ति तद बोद्धव्यम् । नोशब्दश्वेह सर्व ऽऽगमसर्वनिषेधे द्रष्टव्यः । एतच्च सर्वमपि नोआगमतो द्रव्यावश्यक समभेदं यथा सूत्रेऽनुयोगद्वाराख्ये प्रोक्तं तथा विज्ञेयमिति ॥८६७ इह लोकोत्तरं यद् नोआगमतो द्रव्यावश्यकमुक्तम् । तत्रोदाहरणमाह लोउत्तरे अभिक्खणमासेवालोयओ उदाहरणं । स रयणदाहगवाणियनाएण जईहुवालद्धो ॥ ८६८ ॥ लोकोत्तरे नोभागमतो व्यावश्यकेऽभीक्षणमासेवकालोचकसाध्वाभास उदाहरणम् । सेवकश्वासावालोचकश्चेति समास १ अर्धस्य विसंवादः श्रुतभेदात् सतश्चरणभेदः । सत्तो मोक्षाभावो मोक्षाभावेऽकला दीक्षा ॥ ८६६॥२ क. ग. 'दादेव चार्थ' । नोआगमप्तो शायक भव्यशरीरा-अतिरिक्तमावश्यकम् । लौकिक लोकोत्तरिक कुमावनिक यथा सूत्रे 14६७॥ .लोकोत्तरेऽभीषणामासेवकालोचक पदाहरणम् । स रलदाहकषणिग्ज्ञातेन पतिभिरुपालवधः ॥ १८॥ आसेवकालोचकस्य च योऽगीतार्थगुरुः स खलु रनदाहकवणिग्ज्ञातेन गीतार्थयतिभिरुपालब्धः । इत्यक्षरार्थः। भावार्थस्तु कथानका म्यः। तच्च कथ्यते बसन्तपुरं नाम नगरम् । तत्र चाऽगीतार्थः संविनाभास एको गच्छः मूरिसहितो विचरति । तन्मध्ये चैक: साध्वाभासहि ठति । स च प्रतिदिनमुदकाहस्तादिदोपदुष्टान्यनेपणीयभक्त-पानकादीनि गृहीत्वाऽऽवश्यककाले महान्तं संवेगमिवोद्वहन् सर्व गुर्वन्ति ऽन्वहमालोचयति । गुरुरपि तथैव प्रायश्चित्तं प्रयच्छति । तच्च प्रयच्छन्नगीतार्थत्वेन नित्यमेवं वक्ति- अहो ! धर्मश्रद्धालुरयं महाभाग सुखेनाऽऽसेव्यते, दुष्करं च यदित्थमालोच्यते, अतोऽशठत्वादेव शुद्धोऽयम् । एतच्च दृष्ट्वाऽन्ये मुग्धसाधवश्चिन्तयन्ति- अहो ! आली चयितव्यमेवेह साध्यम् , तचेत् क्रियते, तीकृत्यासेवनेऽपि न कश्चिद् दोष इति । एवं सर्वस्मिन्नपि गच्छे प्रायः प्रवृत्तमसमञ्जसमिति इत्थं च व्रजति कालेऽन्यदा गीतार्थसाधुः कश्चित् तत्र गच्छे माघूर्णकः समायातः। तेन च सोऽविधिः सर्वोऽपि दृष्टः । ततश्चिन्तितम् अहो ! अनेनाऽगीतार्थगुरुणा सर्वोऽप्ययं नाशितो गच्छः । ततस्तेन भणितो गुरु:- अहो ! त्वममुं नित्यमकृत्यासेवकं साधुमित्थं प्रशंसा भवसि गिरिनगरनृपतेस्तन्नगरनिवासिलोकस्य च सदृशः । कथम् ?, इत्यत्रोच्यते गिरिनगरं नाम नगरम् । तत्र चैको वणिक् कोटीश्वरो निवसति । स च वैश्वानरभक्तत्वात् प्रतिवर्ष रत्नानामपवरकं भृत्वा वहिन प्रदीपयति । तं च तथा कुर्वन्तं राजा नगरलोकश्च सर्वदा प्रशंसति, यथा- अहो! वैश्वानरे भक्तिरस्य, यदमुं भगवन्तं प्रतिवर्षमिर रत्नस्तर्पयत्यसौ । एवं च प्रशस्यमानोऽयमादृततरः प्रतिसंवत्सरं तथाऽनुतिष्ठति । ततोऽन्यदा प्रचण्डपवनोद्धृतस्तेन प्रदीपितो बहि सराजगृहं समस्तमपि नगरं भस्मसात् करोति । ततः सनगरेण राज्ञा 'किमस्माभिरित्थं कुर्वन्नसौ पूर्व न निषिद्धः, किंवा पर्श सितः' इत्यादिवढं पश्चात्तापं कृत्वा दण्डितः, निर्वासितश्च नगरादसौ वणिगिति । एवमाचार्य! त्वमप्यविधिप्रवृत्तस्याऽस्य साधोर्नित्यमित्थं प्रशंसां कुर्वन्नमुम्, आत्मानम्, गच्छं च नाशयसि । तस्माद् मथुरापुरी नरपतेः, तन्निवासिलोकस्य च सदृशो भव, यतोऽनर्थभाग न भवसि । कथम् , इत्यत्राप्यभिधीयते मथरानगर्यामपि वैश्वानरभक्तन केनापीश्वरवणिजेत्थमेव रत्नभृतं गृहं प्रदीपयितुमारब्धम् । ततः सनगरलोकेन राज्ञा दण्डितः, तिरस्कृतश्चासौ वणिक् । अटव्यां गृहं कृत्वा किमित्थं नभदीपयसि ?, इति निष्कासितो नगरादिति । त्वमपीत्थं कुर्वन्नमुम् , आत्मानं, गच्छ चानर्थेभ्यो रक्षसि । तदेवं युक्तिभिः शिक्ष्यमाणोऽप्यसौ गुरुरगीतार्थत्वेन साग्रहतया, निर्धर्मतया च स्वप्रवृत्तेने निवर्तते । ततस्तेन प्राघूर्णकसाधुना गच्छसाधयाभिहिता:- अलमेवंभूतस्य गुरोर्वशवर्तित्वेन, परिहियतामयम् । अन्यथा सर्वेषामनाय संपत्स्यते । त For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy