________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
199 विशेषा०
इह समुत्पन्नकेवलज्ञानस्तीर्थकरादिरर्थान् धर्मास्तिकायादीन मूर्ता-ऽमूर्ताऽभिलाप्या-ऽनभिलाप्यान् केवलज्ञानेनैव ज्ञात्वाऽवबुध्य, न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात् , केवलिनश्वाऽऽवरणस्य सर्वथा क्षीणत्वेन तत्क्षयोपशमाभावात् । न हि सर्वशुद्धे पटे देशशुद्धिः संभवति, तद्वदिहापीति भावः ततः किम् ?, इत्याह- तत्र तेषामर्थानां मध्ये ये प्रज्ञापनीयाः प्ररूपणीया योग्यास्तानभिलप्यान् भाषते, नेतरान्- अनभिलप्यान् । प्रज्ञापनीयानपि न सर्वानेव भाषते, तेषामनन्तत्वात् , आयुषस्तु परिमितत्वात् । किं तर्हि ?, योग्यानेव भाषते ग्रहीतृशक्त्यपेक्षया, यो हि यावता योग्य इति । यत्र चाभिहिते शेषमनुक्तमपि विनेयोऽभ्यूहति तदपि योग्य भाषते; यथा ऋषभसेनादीनामुत्पादादिपदत्रयोपन्यासेनैव शेषगतिः । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशि ष्यमाणस्तस्य भगवतो 'वइजोग त्ति' वाग्योग एव भवति, न तु श्रुतम् , नामकर्मोदयजन्यत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , ज्ञानमप्यस्य क्षायिकत्वात् केवलमेव, न भावश्रुतम् ।
आह- ननु वाग्योगः, वाक्परिष्यन्दः, वाग्वीर्यम् , इत्यनर्थान्तरम् । अयं च भवतु नामकर्मोदयजन्या, भाष्यमाणस्तु पुद्गलास्मकः शब्दः किं भवतु ?, इति चेत् । उच्यते- सोऽपि श्रोतृणां भावश्रुतकारणत्वाद् द्रव्यश्रुतमात्रं भवति, न तु भावश्रुतम् । तर्हि किं तद् भावश्रुतम् ?, इत्याह- 'सुयं हवइ सेसं ति' यच्छअस्थानां गणधरादीनां श्रुतग्रन्थानुसारि ज्ञानं तदेव केवलगतज्ञानापेक्षया शेषमन्यद् भावश्रुतं भवति, क्षायोपशमिकोपयोगात्, न तु केवलिगतम् , तस्य क्षायिकत्वादिति ।
अथवा 'सुयं हवइ सेस' इत्यन्यथा व्याख्यायते- तद् भण्यमानं शब्दमानं तत्काल एव श्रुतं न भवति, किं तर्हि ?, शेष 'कालम्' इति वाक्यशेषः । इदमुक्तं भवति- तत् केवलिनः शब्दमात्रं श्रोतृणां श्रवणानन्तरलक्षणे शेषकाले श्रोगतज्ञानकारणत्वेनोपचारात् श्रुतं भवति, न तु भणनक्रियाकाल इति । अथवा, अन्यथा व्याख्यायते- स केवलिनः संबन्धी वाग्योगः श्रुतं भवति । कथंभूतम् ?, शेष- गुणभूतम्-प्रधानम् , औपचारिकत्वादिति । अन्ये तु पठन्ति- 'वइजोगसुयं हवइ तेसि ति' । तत्र तेषां भाषमाणानां संबन्धी वाग्योगः श्रोतृगतश्रुतकारणत्वात् श्रुतं भवति, द्रव्यश्रुतमित्यर्थः । अथवा, तेषामिति श्रोतृणां तानाश्रित्येत्यर्थः, भाषकगतं वाग्योग एव श्रुतं वाग्योगश्रुतं भवति, भाषश्रुतकारणत्वाद् द्रव्यश्रुतमेवेत्यर्थः अथवा, तानान् भाषते केवली, वाग्योगवाऽयमस्य भाषमाणस्य भवति, तेषां श्रोतॄणां भावश्रुतकारणत्वात् श्रुतमसौ भवति ॥ इति नियुक्तिगाथार्थः ॥ ८२९ ॥ (अ)
अथ भाष्यम्नौऊण केवलेणं भासइ न सुएण ज सुयाईओ । पण्णवणिज्जे भासइ नाणभिलप्पे सुयाईए ॥ ८३० ॥ तत्थ वि जोग्गे भासइ नाजोग्गे गाहयाणुवित्तीए । भाणए व जम्मि सेसं सयमूहई भणइ तम्मत्तं ॥८३१॥ वइजोगो तं न सुयं खओवसमियं सुयं जओ न तओ । विन्नाणं से खइयं सहो उण दव्वसुयमित्तं ॥८३२॥ सेसं छउमत्थाणं विन्नाणं सुयाणुसारेणं । तं भावसुयं भण्णइ खओवसमिओवओगाओ ॥ ८३३ ॥ भण्णंतं वा न सुयं सेसं का सुयं सुणेताणं । तं चेव सुयं भण्णइ कारणकज्जोवयारेण ॥ ८३४ ॥ अहवा वइजोगसुयं सेसं सेसं ति जं गुणब्भूयं । भावसुयकारणाओ जमप्पहाणं तओ सेसं ॥ ८३५ ॥ वइजोगसुयं तेसिं ति केइ तेसिं ति भासमाणाणं । अहवा सुयकारणओ वइजोगसुयं सुणेताणं ॥ ८३६ ॥
सप्तापि व्याख्यातार्था एच । नवरं प्रथमगाथायां यद् यस्मात् श्रुतातीतः केवलज्ञानेनैवाऽवभासितसमस्तत्रिभुवनोदरत्वात् श्रुता तिक्रान्तोऽसौ भगवान् केवली 'सुयाईए ति' वाग्गोचरातिक्रान्तत्वेन श्रुतातीतानर्थान् न भाषत इति । तृतीयगाथायां 'न तउत्ति तकः क्षयोपशमोऽस्य केवलिनो नास्तीति ॥ ८३० ॥ ८३१ ॥ ८३२ ॥ ८३३ ॥ ८३४ ॥ ८३५ ॥ ८३६ ॥ .
- तदेवं प्रतिपादितं केवलज्ञानस्वरूपम् । अथाऽस्य गत्यादिद्वारेषु सत्पदमरूपणतादयो वाच्याः। तत्र गतौ तावत्- मनुष्य सिद्धयोः केवलज्ञानं प्राप्यते । इन्द्रियद्वारे- अतीन्द्रियाणाम् : कायद्वारे- सकाया-ऽकाययोः योगद्वारे- सयोगा-ऽयोगयोः वेदद्वारे- अवेदकानाम; कषायद्वारे- अकषायाणाम्; लेश्याद्वारे-सलेश्या-ऽलेश्ययोः सम्यक्त्वद्वारे- सम्यग्दृष्टीनाम् ज्ञानद्वारे
१ ज्ञात्वा केवलेन भापते न श्रुतेन यत् श्रुतातीतः। प्रज्ञापनीयान् भाषते नाऽनभिलाप्यान् श्रुतातीसान् ॥ ३०॥ तत्रापि योग्याम् भापते नाऽयोग्यान् ग्राहकानुवृरया । भणिते च यस्मिन् शेषं स्वयमूहते भणति तन्मात्रम् ॥ ८३१॥ वाग्योगस्तद् न श्रुतं क्षायोपशमिकं श्रुतं यतो न सकः । विज्ञानं तस्य क्षायिकं शब्दः पुनद्रव्यश्रुतमात्रम् ॥ ८३२॥ शेष छद्मस्थाना विज्ञानं श्रुतानुसारेण । तद् भावश्रुतं भण्यते क्षायोपशमिकोपयोगात् ॥ ८३३॥ भण्यमानं वा न श्रुतं शेष कालं श्रुतं शृण्वताम् । तदेव श्रुतं भण्यते कारणकार्योपचारेण ॥८३५॥ ... अथवा वाग्योगधुतं शेषं शेषमिति यद् गुणभूतम् । भावथुतकारणाद् यदप्रधानं ततः शेषम् ॥ ८३५॥ वाग्योगश्रुतं तेपामिति केचित् तेषामिति भाषमाणानाम् । अथवा श्रुतकारणतो वाग्योगश्रुतं शृण्वताम् ॥ ३॥
For Private and Personal Use Only