SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 172 विशेषा० तानि, अबद्धेभ्यश्च पद्धानि बादराणि भवन्ति, अच्युततन्तुभ्यश्च्युततन्तुषु तथादर्शनात् । अतोऽत्र कार्मणशरीरदर्शिनः स्तोको क्षेत्रकालौ विषयत्वेनोक्ताविति ।। ६७३ ।। अत्र भाष्यम् 'एयाइं जओ कम्मयदव्वेहितोऽतिथूलयरयाई । तेयाइयाई तम्हा थोवयरा खेत्त-काल त्थ ॥ ६७४ ॥ - एतानि यतस्तैजसादीनि तैजसशरीर-कार्मणशरीर-तैजसवर्गणाद्रव्य-भाषावर्गणाद्रव्याणीत्यर्थः, कार्मणशरीरयोग्यवर्गणाद्रव्येभ्योऽतिस्थूलतराणि चादराणि, तस्मात् स्तोकतरौ क्षेत्र-कालापत्र प्रोक्तौ, इति मागेव भावितम् ॥ इति सभाष्यनियुक्तिगाथार्थः॥ ६७४ ॥ आह-ननु यथा जघन्य-मध्यमावधी निर्दिष्टन्यायेनाऽसर्वरूपिद्रव्यविषयायुक्तौ, तथोत्कृष्टावधिरपि, आहोखित् सर्वमपि रूपिद्रव्यमसौ पश्यति !, इत्याशङ्कयाह 'एगपएसोगाढं परमोंही लहइ कम्मगसरीरं । लहइ य अगुरुयलहुयं तेयसरीरे भवऍहुत्तं ॥ ६७५ ॥ एकस्मिन्नाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगाढं परमाणु-यणुकाधनन्ताणुकस्कन्धपर्यन्तं सर्वमपि द्रव्यं, परमश्वासाववधिश्च परमावधिरुत्कृष्टावधिरित्यर्थः, लभते पश्यति, तथा कार्मणशरीरं च लभते । आह- 'एकप्रदेशावगाढं' इति सामान्योक्तौ कथं परमाणु-घणुकादिकं द्रव्यं गम्यते, यावता 'एकमदेशावगाढं कार्मणशरीरं' इत्युपात्तमेव कस्माद् न योज्यते । नैवम् , कार्मणशरीरस्याडसंख्येयप्रदेशावगाहित्वेनैकप्रदेशावाढत्वासंभवादिति । अगुरुलघु च द्रव्यं सर्वमपि परमावधिः पश्यति । जात्यपेक्षं चैकवचनम् , अन्यथा ह्येकप्रदेशावगाढानि कार्मणशरीराण्यगुरुलघूनि, गुरुलघूनि च सर्वाण्यपि द्रव्याण्यसौ पश्यतीत्यवगन्तव्यमिति । तथा, तैजसशरीरविषयेऽवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यम् । एतदुक्तं भवति- यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वमपि पश्यति। पृथक्त्वं च द्वाभ्यामारभ्याऽऽ नवभ्यः सर्वत्र द्रष्टव्यम् । इह च य एव हि भाक् तैजसं पश्यतः पल्योपमासंख्येयभागरूपोऽसंख्येयकालोऽभिहितः, स एवानेन भवपृथक्त्वेन विशेष्यते, इदमपि च भवपृथक्त्वं तेनासंख्येयकालेन विशेष्यते- भवपृथक्त्वमध्य एव स । पल्योपमासंख्येयभागः कालो नाधिकः, एतन्मध्य एव च भवपृथक्त्वं न बहिस्तादिति । आह- नन्वेकप्रदेशावगाढस्य परमावादेरति , एतानि यतः कार्मणद्रव्येभ्योऽतिस्थूलतरकाणि । तैजसादिकानि तस्मात् स्तोकतरौ क्षेत्र-कालावत्र ॥१७॥ १ एकप्रदेशावगाढं परमावधिर्लभते कार्मणशरीरम् । लभते चागुरुकलघुकं तैजसकारीरे भवपृथक्त्वम् ॥ १७५ ॥ ३ घ.छ. 'पुहत्त' । ४ क.ग. 'गाहित्वा' । मूक्ष्मत्वात् तदुपलम्भे वादराणां कार्मणशरीरादीनामुपलम्भो गम्यत एव, इति व्यर्थस्तेषां पृथगुपन्यासः, अथवा 'एकप्रदेशावगा'। इत्यपि न वक्तव्यम्, 'रूपगतं लभते सर्वम्' इत्यस्य वक्ष्यमाणत्वात् । अत्रोच्यते- यः सूक्ष्म परमाण्वादि पश्यति तेन बादरं कामणशरीराद्यवश्यमेव द्रष्टव्यम् , यो वा बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमः, यस्मात् 'तेयाभासादवाण अंतरा' इत्यादिवचनादुत्पत्तावगुरुलघु द्रव्यं पश्यन्नप्यवधिर्न गुरुलघूपलभते, अन्यद्वाऽतिस्थूरमपि घटादिकं च मनःपर्यायज्ञानी मनोद्रव्याणि मूक्ष्माण्यपि पश्यति, निन्तनीयं तु घटादि स्थूरमपि न पश्यति एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयव्यवच्छेदार्थमेकप्रदेशावगाढ. ग्रहणे सत्यपि शेषविशेषोपादानमदोपायैवेति । अथवैकप्रदेशावगाढग्रहणेन परमाण्वादि द्रव्यं गृहीतं, शेपं तु कर्मवर्गणापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितम् , कर्मवर्गणोपरितनद्रव्यं तु सर्वमप्यगुरुलघुग्रहणेन संगृहीतम् ; चशब्दसूचितगुरुलघुग्रहणेन तु घट-पट-भू-भूधरादिक गृहीतम् , इत्येवं समस्तपुद्गलास्तिकायविपयत्वं परमावधेराविष्कृतं भवति । एवं च सति 'रूपगतं लभते सर्वम्' इत्येतद् वक्ष्यमाणमस्यैव नियमार्थ द्रष्टव्यमेव- इत्येतदेव हि रूपगतं नान्यत् । इत्यलं प्रपञ्चेन ॥ इति नियुक्तिगाथार्थः ॥ ६७५ ॥ अथ भाष्यम् एगपएसोगाढं पेच्छइ, पेच्छइ य कम्मयतणुं पि । अगुरुलहुव्वाणि य चसद्दओ गुरुलहूई ति ॥६७६॥ तेयसरीरं पासं पासइ सो भवपुहुत्तमेगभवे । णेगेसुं बहुतरए सरिज न उ पासए सव्वे ॥ ६७७ ॥ गतार्थे एव, नवरं 'एगभवे त्ति' एकस्मिन् विवक्षितभवे समुत्पन्नेऽवधावतीतमनागतं च पृथग्भवपृथक्त्वं पश्यति । 'णेगेसुमित्यादि' यदि पुनस्तस्याऽप्यतीतभवपृथक्त्वस्य मध्येऽनेकेषु भवेष्ववधिज्ञानमुत्पन्नं स्यात् तदा तेन पूर्वावधिना दृष्टाद् भवपृथक्त्वादपि बहुतरानतीता-ऽनागतभवान् स्मरेत्- स्मृतिज्ञानेन जानीयात् । न तु पृथक्त्वान्तर्वर्तिन इव तान् सर्वान् साक्षादवधिज्ञानेन पश्यति, भवपृथक्त्वमात्रमेव साक्षात् पश्यतीति भावः ॥ ६७६ ॥ ६७७ ॥ अत्र प्रेरका माह, गाथा ६२७ । २ एकप्रदेशावगाट प्रेक्षते, प्रेक्षते च कार्मणतनुमपि । अगुरुलघुद्रव्याणि च चशब्दतो गुरुलघूनीति ॥ १७॥ तैजसशरीरं पश्यन् पश्यति स भवपृथक्त्वमेकभवे । भनेकेषु बहुतरान् स्मरेद् न तु पश्यति सर्वान् ॥ ६७७ ॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy