SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 विशेषा० यावती यावत्प्रमाणाधीन समयानाहारयतौति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्व पनकजीवो वनस्पतिविशेषस्तस्य, अवगाहन्ते यस्यां प्राणिनः साऽवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रमवधिक्षेत्रं. जघन्य सर्वस्तोकम् । तुशब्दोऽवधारणे । तस्य चैवं प्रयोगः- अवधेविषयभूतं क्षेत्रं जघन्यमेतावदेव ॥ इति नियुक्तिगाथासंक्षेपार्थः।।५८८। अय सांप्रदायिकार्यव्याख्यानपर भाष्यम्'जो जोयणसाहस्सो मच्छो नियए सरीरदेसम्मि । उववजतो पढमे समए संखिवइ आयामं ॥ ५८९ ॥ पयरमसंखिजंगुलभागतणुं मच्छदेहविच्छिण्णं । बीए, तईए सूई संखिविउ होइ तो पणओ ॥ ५९० ॥ उववायाओ तईए समए जं देहमाणमेयस्स ।'तण्णेयदब्वभायणमोहिक्खित्तं जहन्नं तं ॥ ५९१ ॥ यो मत्स्यो योजनसहस्रो योजनसहस्रायामः स्वदेहस्यैव वाबदेश उत्पधमानः प्रथमे समये आयाम संक्षिपति तं च संक्षिपन् मतरं करोति' इति शेषः । कथंभूतम् , इत्याह- ' असंखेजंगुलभागतणु ति' बोहल्येनाकुलासंख्येयभागसूक्ष्ममित्यर्थः । पुनरपि' तत् कथंभूतम् १, इत्याह- मत्स्यदेहविस्तीर्ण शरीरान्तःसंबद्धत्वाधिस्तिर्यक् च यावान् मत्स्यदेहविस्तरस्तावांस्तजीवप्रदेशमतरस्थापीत्यर्थ एवं चायामतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गुलासंख्येयभागबाहल्यश्चायं प्रतरो भवतीति प्रथमसमयव्यापारः । ननु च प्रथमे समये आयाम संक्षिपति, इत्येतदेवोक्तं, यथोक्तमतरकरणं तु कुतो लभ्यते, इति चेत । उच्यते- अनन्तरं द्वितीयसमये तत्संक्षेपस्य भणनात , तस्य च करणपूर्वकत्वादिति । 'बीए' इति 'संखिवि' इत्यत्रापि संबध्यते । ततो द्वितीयसमये तं-पतरमभयतः संक्षिप्याऽङ्गुलासंख्येयभागबाहल्यां मत्स्यशरीरपृथुत्वायामां मूचिं करोति' इत्यध्याहारः । अत्राप्यनन्तरतृतीयसमये सूचिसंक्षेपाभिधानात् तस्य च तत्करणपूर्वकत्वात् सूचिकरणमध्याहियते । 'तईए त्ति' ततस्तृतीयसमय एतामपि सूचिं संक्षिप्याकुलासंख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायुरुदीर्णपरभवायुश्चाविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनका सूक्ष्मवनस्पतिजीवनिशेपो यो योजनसहस्रो मत्स्यो निजके शरीरदेशे । उपपद्यमानः प्रथमे समये संक्षिपत्यायामम् ॥ ५८९ ॥ प्रतरमसंख्येयागुलभागतर्नु मत्स्यदेहविस्तीर्णम् । द्वितीये, तृतीये सूचि संक्षिप्य भवति ततः पनकः ॥ ५९॥ उपपादात् तृतीये समये यद् देहमानमेतस्य । तज्ज्ञेयद्रव्यभाजनमवधिक्षेत्रं जघन्यं तत् ॥ ५९१ ॥ २ घ.छ. 'बाहुल्ये'। ३ घ.छ. 'पिक'। ४ क.ख.ग. 'ये ता . भवति । अस्मादुत्पादसमयात् तृतीयसमये यद् देहमानमेतस्य पनकस्य । तत् किम् ?, इत्याह- 'ओहिक्खित्तं जहन्नं तं ति' तज्जधन्यमवधेर्विषयभूतं क्षेत्रम् । किंखरूपम् ?, तज्ज्ञेयद्रव्यभाजनं तस्यावधेईयानि प्राथाणि यानि द्रव्याणि तेषां भाजनमाधारभूतम् । एतेन तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते, न तु साक्षात् , तस्याऽमूर्तत्वात् , अवधेस्तु मूर्तविषयत्वादिति । एतगाथात्रयव्याख्यातार्थसंवादि चोक्तं वृद्धैः " योजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि सूक्ष्मः पनकत्वेनेह स प्रायः ॥ १॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलविभागबाहल्यमानं तु ॥२॥ स्वकतनुपृथक्त्वमानं दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ ३ ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् | निजतनुपृथक्त्वदै| तृतीयसमये तु संहृत्य ॥४॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥५॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ॥ ६॥" अत्र परः पृच्छति'किं मच्छो अतिमहल्लो किं तिसमयओ व कीस वा सुहुमो । गहिओ कीस व पणओ किंव जहण्णावगाहणओ ? ॥५९२।। किमिति मत्स्योऽतिमहान् गृह्यते ?, किंवा त्रिसमयाहारकः- तृतीये समये निजशरीरदेशोत्पत्तिमान् वा एखते ?, किंवा सूक्ष्मः १, किमिति वा पनको, जघन्यावगाहनको वा गृहीतः ? इति ॥ ५९२ ॥ . . अत्रोत्तरमाह मच्छो महल्लकाओ संखित्तो जो य तीहि समयेहिं । सो किर पयत्तविसेसेण सहमोगाहणं कुणइ ॥५९३१ सण्हयरा सण्हयरो सुहुमो पणओ जहण्णदेहों य । सुबहुविसेसविसिट्ठो सहयरो सव्वदेहेसु ॥ ५९४ ॥ ५९९ किं मत्स्योऽसिमहान् किं भिसमयको वा कस्मात् वा सूक्ष्मः । गृहीतः कस्माद् वा पनका किंवा जघन्यावगाहनक: २ मत्स्यो महाकायः संश्रितो यश्च त्रिभिः समयः । स किल प्रयत्नविशेषेण सूक्ष्मामवगाहना कुरुते ॥ ५९३ ॥ लक्ष्णतरातू सक्ष्णतरः सूक्ष्मः पनको जघन्यदेहश्च । सुबहुविशेषविशिष्टः सूक्ष्मतरः सर्वदेहेषु ॥ ५९॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy