SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा० "'थेराणं नाणत्तं अतरतं अप्पिणन्ति गच्छस्स । गच्छे निरवजेणं करेन्ति सव्वं पि परिकम्मे ॥ १॥ एकपडिग्गहगा सप्पाउरणा हवंति थेरा उ । जेसि उण जिणकप्पे न य तेसिं वत्थपायाणि ॥२॥ निप्पडिकम्मसरीरा अवि अच्छिमलं पि नेअ अवणिति । विसहति जिणा रोग कारिंति कयाइ न तिगिच्छं॥३॥ इत्यलं विस्तरेण, तदर्थना तु कल्पग्रन्थोऽन्वेषणीय इति । तस्माद् यतः प्रव्रज्या-शिक्षापदानन्तरमर्थग्रहणं विधेयम्, ततोs व्याख्यारूपेणाऽनुयोगेनाऽयमधिकार:सूत्राध्ययनकालस्यातिक्रान्तत्वेन तस्यैवेह प्रस्तुतत्वादिति स्थितम् ॥ इति गाथार्थः॥७॥ आह-कृतपश्चनमस्काराय शिष्याय सामायिकादिश्रुतं ददत्याचार्याः, तेनैव च क्रमेणाऽनुयोगमित्युक्तम् , यदि नामैवमुक्तता किम् , इत्याह आईए नमोकारो जइ पच्छाऽऽवासयं तओ पुव्वं । तस्स भाणएऽणुओगे जुत्तो आवसयस तओ ॥ ८॥ यदीत्यभ्युपगमे, यद्यादौ नमस्कारो दीयते ततः पश्चात् सामायिकाद्यावश्यकम् , ततस्तषेतदनेन न्यायेनाऽऽपतितं यदुत- पूर्व प्रथमं तस्य नमस्कारस्य भणिते कृतेऽनुयोगे व्याख्याने ततो युक्तः कर्तुमावश्यकस्याऽनुयोगः, व्याख्येयाऽनुरोधेनैव हि व्याख्यान श्यकस्यादौ नमस्कारो देयत्वेन भवद्भिरभ्युपगम्यते, अतस्तस्यानुयोगे कृते आवश्यकस्याऽसौ कर्तुमुचिता, तत आद्यगाथायां 'नमोकाराणुओगपुव्वयं आवस्सयाणुओगं वोच्छं' इति वक्तुं युक्तमिति भावः॥ इति गाथार्थः अत्रोत्तरमाह- . सो सव्वसुअक्खन्धब्भन्तरभूओ जओ तओ तस्स । आवासयाणुओगादिगहणगहिओऽणुओगो वि ॥९॥ - स नमस्कारः सर्वेषामप्यावश्यक-दशवैकालिको-त्तराध्ययनादिश्रुतस्कन्धानामभ्यन्तर्भूतोऽन्तर्गतो यतः, ततस्तस्य नमस्कार १ स्थविराणां नानात्वमशक्नुवन्तमर्पयन्ति गच्छस्य । गच्छे निरवद्येन कुर्वन्ति सर्वमपि परिकर्म ॥१॥ एकैकप्रतिग्रहका सप्रावरणा भवन्ति स्थविरास्तु । येषां पुनर्जिनकल्पो न च तेषां वस्त्रपात्राणि ॥२॥ निष्पतिकर्मशरीरा अप्यक्षिमलमपि नैवाऽपनयन्ति । विषहन्ते जिनाः (जिनकल्पिकाः) रोगं कारयन्ति न कदापि चिकित्साम् ।। २ आदौ नमस्कारो यदि पश्चादावश्यकं सतः पूर्वम् । तस्य भणितेऽनुयोगे युक्त आवश्यकस्य ततः॥८॥ ३ नमस्कारानुयोगपूर्वकमावश्यकानुयोगं वक्ष्ये । ४ स सर्वश्रुतस्कन्धाभ्यन्तरभूतो यतस्ततस्तस्य । आवश्यकानुयोगादिग्रहणगृहीतोऽनुयोगोऽपि ॥९॥ स्य, आदिशब्दो भिन्नक्रमे, आवश्यकादिश्रुतस्कन्धानुयोगग्रहणगृहीतोऽनुयोगोऽपि, न केवलमावश्यकादिश्रुतस्कन्धग्रहणेन तदन्तर्गतत्वाद् नमस्कारः स्वरूपेण गृह्यते, किन्त्वावश्यकादिश्रुतस्कन्धानुयोगग्रहणेन नमस्कारानुयोगोऽपि गृह्यत इत्यपिशब्दार्थः, ततश्चावश्यकानुयोगं वक्ष्य इत्युक्तेन नमस्कारानुयोगोऽपि भणनीयत्वेन प्रतिज्ञातो. द्रष्टव्य इति भावः ॥ इति गाथार्थः ॥९॥ कथं पुनर्नमस्कारस्य सर्वश्रुतस्कन्धाभ्यन्तरता विज्ञायते ?, इत्याहतैस्स पुणो सव्वसुयभंतरया पढममंगलग्गहणा । जं च पिहो न पढिज्जइ नंदीए सो सुयक्खंधो ॥१०॥ तस्य च नमस्कारस्य, सर्वाणि च तानि श्रुतानि चाऽऽवश्यकश्रुतस्कन्धादीनि तदभ्यन्तरता प्रतीयते । कुतः १, इत्याह- सकलमाङ्गलिकवस्तुनः प्रथमं च तन्मङ्गलं च प्रथममङ्गलं तदध्यवसायेन सर्वश्रुतस्यादौ ग्रहणं प्रथममङ्गलग्रहणं तस्मात् । इदमुक्तं भवति"मङ्गलाणं च सव्वेसिं पढमं हवैइ मङ्गलं" इति वचनात् प्रथममङ्गलत्वाभिप्रायेण सर्वश्रुतानामादौ नमस्कारस्य ग्रहणात् तदभ्यन्तरता प्रतीयत एव । कारणान्तरमप्याह- 'जं चेत्यादि' यद् यस्माच्चाऽसौ नमस्कारो नन्द्यध्ययने आवश्यक-दशकालिकादिश्रुतस्कन्धवत तेभ्यः पृथक् 'सुअक्खंधो त्ति' श्रुतस्कन्धत्वेन न पठ्यते, येनाऽस्य पृथक् तेभ्यः श्रुतस्कन्धरूपता स्यात् , श्रुतरूपश्चाऽसौ, ततः पृथक् श्रुतस्कन्धत्वाभावे सामर्थ्यात् सर्वश्रुताभ्यन्तरतैवाऽस्य न्याय्या । तस्माद् नन्द्यध्ययनेऽप्यस्य श्रुतस्कन्धत्वेन पृथगनुपादानं सर्वश्रुताभ्यन्तरताज्ञापनार्थमेव ॥ इति गाथार्थः ॥१०॥ यतश्चैवं नन्यां श्रुतस्कन्धत्वेन पृथगनुपादानात् सर्वश्रुताभ्यन्तरत्वेन ज्ञापितोऽसौ नमस्कारः, तत एवैतत् कृतं भद्रबाहुखामिना । किम् ?, इत्याह तेणे चिय सामाइयसुत्ताणुगमाइओ नमोक्कारं । वक्खाणेउं गुरवो वयंति सामाइयसुयत्थं ॥ ११॥ • येनैवोक्तन्यायेन नन्द्यामसौ सर्वश्रुताभ्यन्तरतया ज्ञापितः, तेनैव कारणेन सामायिकसूत्रानुगमस्यादौ नमस्कार व्याख्याय गुरवो भद्रबाहुस्वामिनो वदन्ति-अर्थव्याख्यानद्वारेण प्रकटयन्ति सामायिकश्रुतार्थम् । यदि हि पृथगसौ श्रुतस्कन्धः स्यात् तदा"ऑवस्सयस्स १ तस्य पुनः सर्वश्रुताभ्यन्तरता प्रथममगलग्रहणात् । यच्च पूथग् न पठ्यते नन्यां स श्रुतस्कन्धः॥१०॥ २ मङ्गलानां च सर्वेषां प्रथमं भवति मालम् । ३ क. घ. छ. 'होह'।। ४ तेनैव सामायिकसूत्रानुगमादितो नमस्कारम् । व्याख्यानय्य (व्याख्याय) गुरवो वदन्ति सामायिकसूत्रार्थम् ॥११॥ .५ आवश्यकस्य दशवकालिकस्य तथोत्तराध्ययाना-ऽऽचारामयोः, सूत्रकृता नियुक्तिम् ॥ For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy