SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 135 ' विशेषा० 'किमणंतगुणा भणिया जमगुरुलहुपज्जया पएसम्मि । एकेक्चम्मि अणंता पण्णत्ता वीयरागेहिं ॥ ४९१ ॥ ननु “ सव्वागासपएसग्गं सव्वागासपएसेहिं अर्णतगुणियं" इत्यत्र किमित्याकाशमदेशाः सूत्रेऽनन्तगुणा भणिताः १ । अत्रोत्तरमाह- 'जमित्यादि' यद् यस्मात्कारणात् एकैकस्मिन्नाकाशप्रदेशेऽगुरुलघुपर्याया वीतरागैस्तीर्थकर-गणधरैरनन्ताः शताः प्ररूपिताः । ततश्चाऽयमभिप्राय:- इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्म त्वगुरुलघु । तत्राऽगुरुलघुवस्तुसंबन्धिनः पर्याया अप्यगुकलयन... भिधीयन्ते, आकाशप्रदेशाश्वाऽगुरुलघवः, अतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते । ते च तेषु प्रत्येकमनन्ताः सन्ति । दशाग्रं सर्वाकाशनदेशैरनन्तगुणमुक्तमिति भाव इति ॥ ४९१ ॥ तरेण प्रेरयन्नादयाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुल्लं हविज्जाहि ? ॥४९२॥ - "सव्वागासपएसगं सव्वागासपएसेहि अणंतगुणियं पजवक्खरं निष्फज्जइ" इत्यत्र सूत्रे नन्यध्ययनेऽविशेषित नाणमक्खरं ति' ज्ञानमक्षरं प्रतिपादितम् , अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात् तदेव तत्राऽक्षरं गम्यते, इह त पाचाराधिकारात् श्रुताक्षरमकारायेवाऽक्षरशब्दवाच्यत्वेन प्रकृतं प्रस्तुतम् । ततः को दोषः १, इत्याह- तच्चाऽकारादि श्रुताक्षर कथं केवलपर्यायमानतुल्यं भवेत् १-न कथश्चिदित्यर्थः । अयमभिप्रायः- केवलस्य सर्वद्रव्य-पर्यायवेत्तृत्वाद् भवतु सर्वद्रव्य-पर्यायमानता, श्रुतस्य तु तदनन्तभागविषयत्वात् कथं तत्पर्यायमानतुल्यता' इति ॥ अत्रोच्यते-ननु तत्रापि 'अक्खर सण्णी सम्म साइयं खलु' इत्यादिप्रक्रमेऽपर्यवसितश्रुते विचार्यमाणे “ सव्वागासपएसगं" इत्यादि मत्रं पठ्यते, ततो यथेह, तथा तत्रापि श्रुताधिकारादक्षरमकाराधेव गम्यते न तु केवलाक्षरम् । अथ ब्रओ-तत्र द्वितीयमनन्तरं मत्रं यत पठ्यते "सध्वजीवाणं पिय णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति, एतस्मात् केवलाक्षरं तत्र गम्यते, न तु किमनन्तगुणा भणिता यदगुरुलघुपर्ययाः प्रदेशे । एकैकस्मिन्ननन्ताः प्रज्ञप्ता वीतरागैः ॥ १९ ॥ + तथा२ सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणितम् । । । तत्राविशेषितं ज्ञानमक्षरमिह श्रुताक्षरं प्रकृतम् । तत् कथं केवलपर्यायमानतुल्यं भवेत् ॥ १९॥ सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशरनम्तगुणितं पर्यवाक्षरं निष्पद्यते । ५ प. छ. 'रात च। ६. गाथा ४५४ । ७ सर्वजीवामामपि चाऽक्षरस्याऽनन्तभागो नित्योद्घादितः। श्रुताक्षरम् , सकलद्वादशाङ्गविदा संपूर्णस्याऽपि श्रुताक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्याअनुपपत्तेः। अहो! असमीक्षिताभिधानम् , यत एवं सति केवलाक्षरमपि तत्र नोपपद्यते, केवलिना संपूर्णस्यापि केवलाक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाट:' इत्यस्यार्थस्यानुपपत्तेरेव । अथ मनुषे-तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , अपिशब्दादु वा केवलिनो विहायाऽन्येषामेवाक्षरस्याऽनन्तभागो नित्योद्बाट इति केवलाक्षरग्रहणेविरोधः।हन्त ! तदेतत् श्रुताक्षरग्रहणेऽपि समानम् , यतस्तत्राविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात, अपिशब्दाद् वा समस्तद्वादशाङ्गीविदो विहायाऽन्येषामेवाऽस्मदादीनामक्षरस्याऽनन्तभागो नित्योद्घाट इतीहापि शक्यत एव वक्तुम् । तस्मात् तत्र, इह च श्रुताक्षरमकारायेव गम्यते ॥ ४९२॥ __ यदि वान श्रुताक्षरं तत्र केवलाक्षरमपि भवतु, न च श्रुताक्षरस्य केवलपर्यायतुल्यमानता विरुध्यते । कथम् १, इत्याह 'सयपज्जवेहिं तं केवलेण तुल्लं न होज्ज न परेहिं । स-परपज्जाएहि उ तुल्लं तं केवलेणेव ॥४९३॥ स्वकाः स्वकीया अकारे-कारो-कारादयोऽनुगताः श्रुतज्ञानस्य स्वपर्याया इत्यर्थः, तैरनुगतैः खपर्यायैस्तत् श्रुताक्षर केवलेन केवलाक्षरेण तुल्यं न भवेत् , सर्वपर्यायानन्तभागवर्तित्वाच्छुतज्ञानवपर्यायाणाम् केवलज्ञानं तु सर्वद्रव्य-पर्यायराशिममाणं, सर्वेष्वपि तेषु व्यापारात् , तथाहि-लोके समस्तद्रव्याणां पिण्डितः पर्यायराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम् , एतन्मध्याच्छुतज्ञानस्य खपर्यायाणां किल शतम् , तदूनलक्षं तु परपर्यायाः, केवलज्ञाने त्वेतल्लक्षमपि पर्यायाणामुपलभ्यते, सर्वोपलब्धिस्वभावात् तस्य । ते चोपलब्धिविशेषाः सर्वेऽपि केवलस्य पर्यायाः स्वभावाः, शेयोपलब्धिस्वभावत्वात् ज्ञानस्य । एवं च सति लक्षपर्यायं केवलं, श्रुतस्य तु शतं स्वपर्यायाणाम् । अतस्तैस्तत्केवलपर्यायराशितुल्यं न भवेदिति स्थितम् । तर्हि परपर्यायैस्तत् तस्य तुल्यं भविष्यतीत्याह-न परैः- नापि परपर्यायैस्तत् केवलेन तुल्यं भवेत् । तथाहि- घटादिव्यावृत्तिरूपाः परपर्यायास्तस्य विद्यन्तेऽनन्तानन्ताः, कल्पनया तु शतोनलक्षमानाः, तथापि सर्वद्रव्य-पर्यायराशितुल्या न भवन्ति, सर्वपर्यायानन्तभागेन कल्पनया शतरूपेण सद्भावतस्त्वनन्तात्मकेन खपर्वायराशिना न्यूनत्वात् , केवलस्य तु संपूर्णसर्वपर्यायराशिमानत्वादिति । स्व-परपर्यायैस्तु तत् केवलपर्यायतुल्यमेव, केवलवत् तस्यापि सर्वद्रव्य-पर्यायः माणत्वादिति ।। ४९३ ।। । आह-यद्येवम् , केवलेन सहाऽस्य को विशेषः १ । उच्यते अस्ति विशेषः, यतः । स्वकपर्यवेस्तत् केवलेन तुल्यं न भवेद् न परैः । स्व-परपर्यायैस्तु तुल्यं तत् केवलेनैव ॥ ४९३ ॥ + ते हि For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy