________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
____126 विशेषा.
यतोऽभिधेयमनन्तं, भिन्नरूपं, भिन्नाभिधानं; तेन कारणेनाऽक्षरसंयोगरूपाणामभिधानानां यत् संख्यारूपं मानं परिमाणं तदपि भवति । कियत, इत्याह- अभिधेयगताऽनन्तपर्यायराशितुल्यं यत्परिमाणमभिधेयं तत्परिमाणमभिधानमपि भवतीत्यर्थ: अभिधेयभेदेनाऽभिधानस्याऽपि भेदात् । न हि येनैव रूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव रूपेण पटादिशब्देऽपि, अभिधेयैकत्वमसङ्गात् , एकरूपशब्दाभिधेयत्वात् , घट-तत्स्वरूपवदिति । अतोऽभिधेयानन्त्यादभिधानानन्त्यमिति । यद् यतःसूत्रेऽप्यभिहितम्"अणंता गमा अणंतपज्जवा" इति । अतः स्थितमेतत्- 'संजुत्ता-संजुत्ताणं' इत्यादि ॥ इति गाथाचतुष्टयार्थः ॥ ४४८॥
यत एवमनन्ताः श्रुतज्ञानप्रकृतयो भवन्ति, अतः
कत्तो मे वण्णेउं सत्ती सुयनाणसव्वपयडीओ ? । चोदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥४४९॥ ___ कुतो मे शक्तिः सामर्थ्यम् ?, नास्त्येवेत्यर्थः । किं कर्तुं ?, वर्णयितुम् । का?, श्रुतज्ञानसर्वप्रकृतीः सर्वास्त दान् । ततश्चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपो न्यासस्तं वक्ष्यामि भणिध्यामि, श्रुतज्ञाने श्रुतविषयं, चशब्दात् श्रुताज्ञानविषयं च, आशिब्दादुभयविषयं च । तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताशाने असंज्ञि-मिथ्याश्रुते, उभयश्रुते दर्शनपरिग्रहविशेषादक्षरा-ऽनक्षरादिश्रुते ।। इति नियुक्तिगाथार्थः॥ ४४९॥
अथैतद्भाष्यम्
पैयडि त्ति जो तदंसो हेऊ वा तस्स, तस्स भावो वा । ते याणंता सव्वे तओ न तीरंति वो जे.॥१५॥
इह प्रकृतिरिति किमुच्यते १, इत्याह- यस्तदंशः श्रुतज्ञानांशस्तद्भेदोऽङ्गमविष्टादिरित्यर्थः । हेतुर्वा बाह्याऽऽभ्यन्तरभेदमिनो यः श्रुतज्ञानस्य स प्रकृतिः । तत्र बाह्यो हेतुः श्रुतज्ञानस्य पलिखिताक्षरादिः, आन्तरस्तु तद्धेतुः क्षयोपशमवैचित्र्यं, तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां चतुर्दशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः मोच्यते । एते चांशाः, हेतवः, स्वभावाचाऽनन्ताः सर्वेऽपि अत आयुषः परिमितत्वाद् वाचश्च क्रमवर्तित्वाद् न शक्यन्ते वक्तुम् । 'जे' इति निपातोऽलङ्कारार्थ इति ॥ ४५०॥
१५.छ. 'यतश्च सू' क.ख. 'यत् ततः'। २ अनन्ता गमा अनन्तपर्यवाः । ३ गाथा ४४५ । (मायो)
४ कुतो मे वर्णयितुं शक्तिः श्रुतज्ञानसर्वप्रकृती: । चतुर्दशविधनिक्षेपं श्रुतज्ञाने चापि वक्ष्यामि ॥१४९॥ ५ क. 'अत्रैत'।
प्रकृतिरिति यस्तदंशो हेतुर्वा तस्य, तस्य भावो वा । ते चानन्ताः सर्वे ततो न शक्यन्ते वक्तुम् ॥ १५०॥ ख. 'प्रलक्षिता'। - एतदेव भावयति
जावंतो वयणपहा सुयाणुसारेण केइ लभंति । ते सव्वे सुयनाणं ते याणंता मइविसेसा ॥ ४५१ ॥
इह यावन्तः केचन श्रुतानुसारेण संकेताः श्रुतग्रन्यानुसारेण लभ्यन्ते प्राप्यन्ते वचनस्य पन्थानो मार्गा मतिज्ञानाविशेषा इति तात्पर्यम् , ते सर्वेऽपि श्रुतज्ञानमिति । एवं 'ते' विय मईविसेसे सुयनाणभंतरे जाण" इत्यादिमति-श्रुतभेदविचारे पूर्व प्रतिपादिता, ते च श्रुतानुसारिणो मतिविशेषा अनन्ता इति । ननु यदि मतिविशेषाः कथं श्रुतज्ञानम् १, इति तु न मेर्यम् , श्रुतानुसारिणो विशिटस्य मतिविशेषस्यैव श्रुतत्वात् । एतच्च पूर्व विस्तरेण समर्थितमेवेति ॥ ४५१॥
यदि नामाऽनन्ताः श्रुतभेदास्तथापि ते वक्तुं शक्यन्त एव, इत्याशङ्कयाह
उकोससुयन्नाणी वि जाणमाणो वि ते भिलप्पे वि । न तरइ सव्वे वोत्तुं न पहुप्पइ जेण कालो से ॥१५२॥
उत्कृष्टश्रुतज्ञानलब्धिसंपन्नोऽपि चतुर्दशपूर्वधरो जाननपि, अभिलप्यानपि तान् श्रुतज्ञानविशेषाननन्तान् सर्वानपि वक्तुं न शक्नोति । कुतः १, इत्याह- येन कारणेन 'से' तस्योत्कुष्टश्रुतज्ञानिनो वदतः कालो न प्रभवति न पूर्यते, आयुषः परिमितत्वात् , वाचश्च क्रमवतित्वात् । यदा चोत्कृष्टः श्रुतधरोऽपि सर्वान् श्रुतभेदान् वक्तुं न शक्नोति, तदाज्यस्याऽस्मदादेः का वार्ता ? इति भावः ।।४५२।।
'चोइसविहनिक्खेवं' इत्याद्युत्तरार्ध व्याचिख्यासुराह
नाणम्मि सुए चोदसविहं चसद्देण तह य अन्नाणे । अविसहेणुभयम्मि वि किंचि जहासंभवं वोच्छं ॥१५३॥
सम्यक्श्रुतादौ श्रुतज्ञाने चतुर्दशविधं निक्षेपं चशब्देन श्रुताज्ञाने च मिथ्याश्रुतादौ, अपिशब्दादुभयरूपे च दर्शन-परिग्रहविशेषादक्षरां-ऽनक्षरादिश्रुते किंचिद् यथासंभवं निक्षेपं वक्ष्ये ॥ इति गाथाचतुष्टयार्थः ।। ४५३ ॥
तमेव चतुर्दशविधं निक्षेपमाहअक्खर सण्णी सम्मं साईयं खलु सपजवसियं च । गमियं अंगपविठं सत्त वि एए सपडिवक्खा ॥१५॥
यावन्तो वचनपथाः भुतानुसारेण केऽपि लभ्यन्ते। ते सर्वे भुतज्ञानं ते चाऽनन्ता मतिविशेषाः॥४५॥ ३ गाथा १४१ ... उत्कृष्टश्रुसज्ञान्यपि जाननापि तानभिलप्यानपि । न शक्नोति सर्वान् वक्तुं न प्रभवति येन कालस्तस्य ॥ ४५२ ॥ ..
गाथा ४९। ५ ज्ञाने श्रुते चतुर्दशविध पशब्देन तथा चाऽज्ञाने । अपिशब्देनोभयस्मियापि किञ्चिद् यथासंभवं वक्ष्ये ॥४५॥६.७. मक्षरं संज्ञि सम्यक् सादिकं खलु सपर्यवसितंचा गमिकमाविष्टं सप्ताऽप्येते सप्रतिपक्षाः ॥ ४५४॥ .क.ग: 'तु'।
For Private and Personal Use Only