SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 विशेषा० समस्तवस्तुविषयत्वेन तावद् नैते पुद्गलमात्रनिबन्धनियते, अयं च दृश्यते श्रीवादीन्द्रियमभवयोस्तयोदशयोजनादिकं क्षेत्रतो विषयप्रमाणमिति । तदेतदसमीक्षिताभिधानमेव, यत इन्द्रियमभवयोरेव तयोरिद विषयपरिमाणम् , इन्द्रियाणि च पुद्गलमात्रनिबन्धनियतान्येव, इति कुतो व्यभिचारः !, मनामभवयोस्तु तयोरस्ति पुद्गलमात्रनिबन्धाभावा, केवलं तयोः क्षेत्रतो विषयपरिमाणमपि नास्ति, अतः कुतोऽनैकान्तिकता ? इत्यलं विस्तरेण ।। इति गाथात्रयार्थः ॥ ३५० ॥ आह- ननु 'पुढे सुणेइ सई' इत्युक्तं भवनिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उताअन्यान्येव तद्वासितानि, आहोखिद् मिश्राणि ? इति । अत्रोच्यते- केवलानि तावद् न शृणोति, वासकस्वभावत्वाच्छब्दद्रव्याणाम् , तयोग्यद्रव्याकुलत्वाच्च लोकस्य, मिश्राणि तु श्रूयेरन् , वासितानि वाऽन्यानि, येत आह भौसासमसेढीओ सदं जं सुणइ मीसयं सुणइ । वीसेढी पुण सदं सुणेइ नियमा पराधाए ॥ ३५१ ॥ भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः पाञ्जला श्रेणय आकाशपदेशपरयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीषु इतो गतः स्थित इत्यनथान्तर, भाषासमश्रेण भाषकस्य, अन्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता यं शब्द, पुरुषाश्च भेर्यादिसंबन्धिनं ध्वनि शृणोति, तं मिश्रकं शृणोतीत्यव- । गन्तव्यम्, भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति, न तु वासकमेव, पास्यमेव वा केवलमित्यर्थः । 'विसेढी पुणेत्यादि' 'मश्चाः क्रोशन्ति' इतिन्याया विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, स विश्रोणिः पुनः श्रोता शब्दं नियमाद् नियमेन पराघाते वासनायां सत्यां शृणोति । इदमुक्तं भवति-यानि भाषकोत्सृष्टानि,भेर्यादिशब्द व्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्था भृणोति, न त भाषकापुत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनाऽसंभवात् । न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रादिवादरम्याणामेव तत्संभवात् , एषां च सूक्ष्मत्वात् । न च वक्तव्यम्-द्वितीयादिसमयेषु तेषां खयमपि विदिक्ष गमनसंभवात तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनाऽनवस्थानात "भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषाऽभाव" इतिवचनात् । यदपि 'चउहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो' इति वक्ष्यति, तत्रापि द्वितीयादि गाथा ३३६ । २ घ. 'अत'। भाषासमश्रेणीतः पावं यं नृणोति मिश्रक गणोति । विश्रेणि पुनः शब्द भणोति नियमापराधाते ॥ ३५ ॥ ४ घ. छ. 'नि श' । ५ गाथा-३७९॥ समयेषु भाषाद्रव्यैर्वासितत्वात् तेषां भाषात्वं द्रष्टव्यम् । अत्राह- ननु यदि वक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छन्ति, समयानन्तरं च नावतिष्ठन्ते, तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग-विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं माप्नोति, अविशेषेणैव सर्वोऽपि शब्दं शृण्वन्नुपलभ्यते । नैष दोषः, समयादिकालभेदस्यातिसूक्ष्मत्वेनाऽलक्षणादिति । भवत्वेवं, तथापि "भाष्यमाणैव भाषा" इतिवचनाद्. निसर्गसमयवर्तिन्येव भाषा, ततो 'विश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोति' इत्यायातम् । नैतदेवम् , भाषाद्रव्यैर्वासितानामपि द्रव्याणां तदविशेषत्वाद् भाषात्वं न विरुध्यते । अत एव 'वीसेढी पुण सई' इत्यत्र पुनरपि यच्छब्दग्रहणं तत् पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थ कृतम्, इति तावद् वयमवगच्छामः, तत्त्वं बहुश्रुतादयो विदन्तीति । घ्राणादीन्यपीन्द्रियाणि गन्धादिद्रव्याणि मिश्राण्याददते । तेषां चानुश्रेणिगमननियमो नास्ति, पादरत्वात् , वातायनोपलभ्यमानरेणुवत् , इति वृद्धटीकाकारः ॥ इति नियुक्तिगाथार्थः ॥ ३५१॥ 'अत्र भाष्यम्. 'सेढी पएसपंती वदतो सव्वस्स छदिसि ताओ । जासु विमुक्का धावइ भासो समयम्मि पढमम्मि॥३५२॥ इह श्रेणिराकाशमदेशपलिरभिधीयते, लोकमध्ये च वदतो भाषमाणस्य सर्वस्य वक्तुस्ता पूर्वा-पर-दक्षिणो-तरो-/-धोरूपास पदस्वपि दिक्षु सन्त्येव । भाषकेण विमुक्ता निसृष्टा सती भाषा यासु प्रथमसमर्याप लाकान्तमनुधावात ।। पा यासु प्रथमसमयेऽपि लोकान्तमनुधावति ॥ ३५२ ॥ ततः किम् ?, इत्याह भासासमसेढिठिओ तष्भासामीसियं सुणइ सदं । तदव्वभावियाई अण्णाई सुणइ विदिसत्थो ॥ ३५३ ॥ 'भाषासमश्रेणीतः' इति किमुक्तं भवति ?, इत्याह- भाषासमश्रेणिस्थितः । स किम् ?, इत्याह- तस्य भाषकस्य, शङ्खभेर्यादेर्वा भाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्गलसमूहस्तमिश्रितं शब्दं शृणोति । विदिग्व्यवस्थितः पुनः श्रोता तद्र्व्यभावितान्यपराण्येव द्रव्याणि शृणोति, न पुनस्तानि ॥ ३५३ ॥ कुतः, इत्याह श्रेणिः प्रदेशपक्तिर्वदतः सर्वस्य पदिक्षु ताः । यासु विमुक्ता धावति भाषा समये प्रथमे ॥ ३५२ ॥ २ घ. छ. 'सा पढमम्मि समयम्मि' । ३ भाषासमश्रेणिस्थितसादापामिश्रितं शृणोति शब्दम् । तदव्यभावितान्यन्यानि शृणोति विदिकस्थः ॥ ३५५ ॥ ४ प. छ. 'अन्नाई। . For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy