SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पूजाकालनिरूपणम् । चतुर्थी मोन्तेन देवतानाम्नेत्यर्थः । तथा, Acharya Shri Kailassagarsuri Gyanmandir स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु । दीक्षामन्त्रविनोऽपि कुर्याद्देवार्चनं बुधः ॥ इति । प्रतिनिधित्वेन अधिकारिण उक्ताः मन्त्रराजानुष्टुब्विधाने, गुरवः पूजकाचैव विद्वांसो येऽग्निहोत्रणः । अधिकारित्वमर्हन्ति यद्वा याज्ञिकदीक्षिताः ॥ वेदवेदार्थवेत्ता च स्मार्त्तकर्मज्ञ एव वा ॥ इति । इत्यधिकारिणः । अथ पूजाकालः । तत्र माध्याह्निकतर्पणानन्तरं वैश्वदेवात्पूर्व विष्णुपुराण इदेवपूजा, पाद्मनारसिंहयोर्विष्णुपूजोक्ता अतः स एव कालः । व्यासेन वैश्वदेवानन्तरं देवपूजाविधानात् सोऽप्यपरः कालः । इष्टदेव विष्णुपूजाऽन्यदेव पूजानां तु देवकार्यस्य सर्वस्य पूर्वाह्नस्तु विधीयते । इति नरसिंहपुराणीयवाक्यात् पूर्वाह्नः कालः । नारदीये, प्रातर्मध्यन्दिने सायं विष्णुपूर्जा समाचरेत् । यथा सन्ध्या स्मृता नित्या विष्णुपूजा तथा बुधैः ॥ अशक्तौ विस्तरेणैव प्रातः सम्पूजयेद्धरिम् । मध्याह्ने चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् || मध्याह्ने विस्तरेणैव संक्षेपेणाथवा हरिम् । राज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् ॥ नैमित्तिकेषु सर्वेषु तत्तत्कालाविशेषतः । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy