SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णुपूजादिफलानि । लोभाद्देवमाल्यापनयनं च निषिद्धं भाविष्यपुराणे, देवमुल्लुश्चयेद्यस्तु तत्क्षणात्पुष्पलोभतः । पुष्पाणि च सुगन्धीनि पूजको नेतराणि यत् ॥ ब्रह्महत्यामवाप्येह पच्यते शाश्वतीः समाः। नरके इति शेषः । उल्लुञ्चनमत्र देवदत्तपुष्पादेष्टप्रयोजनाय निर्माल्यापनयनकालात्याक् हरणम् । निर्माल्यापनयनस्य प्रातःकाले विधानात् । देशकालानुरोधेन कालान्तरेपि तत्करणमदुष्टम् । पुष्पलोभत इति दृष्टार्थत्वेन निषेधात् । हलायुधः, प्रातः काले सदा कुर्यान्निर्माल्योद्वासनं बुधः । हरेरिति शेषः। वाराहे, निर्माल्यं मद्वपुर्लनं प्रातरेव विवासयेत् । यत्तु गन्धपुष्पादिकं विष्णोः सूर्येऽस्ते नैव धारयेत् । तुलस्या मिश्रितं यच्च दिवारात्रौ न दुष्यति ॥ इति, तत् विगन्धम्लायमानपुष्पपरम् । यत्तु कचिन्मध्याह्ने निर्माल्यापनयनं प्रतीयते तत् प्रातः पूजितस्य पुनर्मध्याह्ने षोडशोपचारादिभिः पूजने क्रियमाणे निर्माल्यापनयनविषयम् । अन्यथा बहुवाक्यबाधापत्तेः । पञ्चरात्रे, यः प्रातरुत्थाय कृताभिषेको निर्माल्यमीशस्य निराकरोति। न तस्य दुःखं न दरिद्रता च नाकालमृत्युन चरोगमात्रम्।। ईशस्य हरेः, प्रकरणात् । तथा तत्रैव, For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy