SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( २० ) Acharya Shri Kailassagarsuri Gyanmandir ३ ॥ तथा सति यथा मीमांसकमते कर्मभिमुक्तिर्भवति तत्प्रकारमधुना सावधानमनसा शृणु । काम्यनिषिद्धे द्वे कर्मणी नैव कर्तव्ये ततः स्वर्गं नरकंचन गच्छति, नित्यं नैमित्तिकं च कर्म कर्तव्यमेव, तदकरणे यत्पापं भवति तत्पापं तयोः करणेन न भवति, इदमेव तयोः फलं न ततोऽधिकं फलमस्ति । यदि तु ज्ञातपापं भवेत्तदा तन्निवृत्यर्थमसाधारणं प्रायश्चित्तं कर्म कुर्यात् यत्तु संचितं पापं भवति अस्मिन् जन्मनि वाऽज्ञातपापं यदस्ति तन्निवृत्त्यर्थं तु साधारणं प्रायश्चित्तं गंगास्नानादिकं कर्म कुर्यात् ततस्तु सर्वपापानि विनश्यति तच्छास्त्रप्रसिद्धमेवेति ॥ ४ ॥ गंगास्नानादिकं कर्म तु न केवलं पापनाशकं किं तु सकामिनां स्वर्गप्रदमपि निष्कामिनां तु चित्तशुद्धिद्वारा मोक्षप्रदमेव भवति । तथा सति मुमुक्षोः साधारणप्रायश्चितेन कर्मणा चित्तशुद्धिद्वारा मोक्षो भवति । तस्य मुमुक्षोः संचितपुण्यपापाख्यकर्मणां ब्रह्मज्ञानिनः कर्मत्रदेव विनाशो भवति यद्वा मुमुक्षुर्योगीवदेककाले एकजन्मनि वा संचितकर्मणां फलं प्राप्य विमुच्यते । तस्मादेकजन्मना मुमुक्षु त्रिमुच्यते । For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy