SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) पूर्वोक्तानां परिच्छिन्नप्रकाशमानानां सूर्यचंद्रादीनामपि प्रकाशकं तैरन्यैरप्रकाशमानं सत्तत्स्वयंप्रकाशमानं किं न भवति न वास्तीति मृदं विना कोऽपि वदति तदेव स्वरूपत्वादेव तदेव ब्रह्माहमस्मीति वक्तुं ते किं बाधकमस्तीति त्वमेव ब्रूहि ॥ ८॥भो मुने यावनिर्विकल्पवृत्तिनभवति तावद्वहिर्मुखपुरुषेण तत्पदंब्रह्मानंदं सच्चिद्धनं कदाचित दपि ज्ञातुं न शक्यते तत एव निर्विकल्पात्मानं निर्विकल्पमनसा बुध्वा तद्रूपेण स्थित्वा जीवन्मुक्तो भव यथा घटोऽयं स्वत एवाकाशेन-पूर्णो भूत्वा पुनश्च तंडुलैः पूर्णो भवति तथैवांतःकरणमपि स्वत एव चिदाकाशेन पूर्णभूत्वा पुनश्च संकल्पः पूर्ण भवति यथा घटात्तंडुलान्बदिः कृत्वा यत्नं विनैव शुद्धाकाशं जनो लभते तथैवांतःकरणं संकल्पविकरूपाभ्यां मलाभ्यां विहीनं कृत्वा पश्चात्तत्कालं यत्न विनैव तत्पदं वेदैवेद्यं बह्मादिभिध्येयं विंदते ॥ ९॥ भो मुनेऽष्टावक्र क्वचित्कालं निर्विकल्पो भूत्वा पश्चात् व्युस्थानं कृत्वा विचारयाऽयं निर्विकल्पकालः केनानुभूतः स्वयं प्रकाशेनात्मना वान्येन ततः स्वयमेवात्मानमन्यैरवेद्यं सत्स्वयंप्रकाशमानं ज्ञास्यसि For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy