________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०) ततश्च वृत् हितचेतनश्वाधिष्ठानं भवति यदि रज्जुचेतनमधिष्ठान स्यात्ताई सर्वेषां ये दशामिथ्या पदार्था दृष्टिगोचरा भवंति ते सर्वेषां दृष्टिगोचरा भवेयुः यतो न सर्वेषां दृष्टिगोचरा भवत्यतो वृत्यविच्छिन्न चेतने मिथ्यावस्तु तज्ज्ञानं च भवति ततो रज्जज्ञानमेव वृत्तिचेतनज्ञानं तज्ज्ञानात्सर्पज्ञानस्य निवृत्तिभवत्येव ॥
L
१२ ॥ तद्वत्स्वप्नेऽपि वृत्यविच्छिन्नं चैतन्यं पदा. र्थानां तेषां ज्ञानानां चाधिष्टानं भवति यस्य जागृति ज्ञानं भवति तस्य भ्रमस्य निवृत्तिरेव भवति न तु सर्वस्य स भ्रमो रज्यां सोवांतः स्वप्नो वा सदसद्विलक्षणाऽनिर्वचनीयः तस्यभानं कथनं च साऽनिर्वचनीया ख्यातिरिति ॥
ननु सर्वत्राधिष्ठानज्ञानात्कटिपतस्य निवृत्तिः श्रूयते
For Private and Personal Use Only