________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) २ ॥ तस्मात्कारणात् रज्जोरावरणं न विनश्यति तदा रज्जूपहितचेतने याऽविद्या सा परिणय सर्पाकारा भवति स सर्पो यदि सत्यः स्यात्तर्हि रज्जुज्ञानेन कथं निवर्तते तदेव सत्यं भवति यत्तु त्रिष्वपि कालेषु न विनश्यति स सर्पो यदि मिथ्या स्यात्तर्हि वंध्यापुत्र वन्नेत्र विषयो न स्यात् यतो रज्जुज्ञानेन नश्यति भवति च नेत्रविषयस्ततः सदसद्विलक्षणः सर्पभ्रमोऽनिर्वचनीय एव भवति तस्यानिर्वचनीयसर्पस्य यद्भानं कथनं च साऽनिर्वचनीयख्यातिर्भवति ॥
३॥ यथा सर्पोऽनिर्वचनीयस्तथा सर्पज्ञानमपि अनिर्वचनीयं अविद्यापरिणामो न त्वंतःकरणस्य परिणामः सर्पनाशवत् ज्ञानस्यापि नाशदर्शनात् यदैव रज्जूपहितचेतने तमःप्रधानाऽविद्या सर्पाकारेण परिणमते तदा साक्षिणिस्थिता याऽविद्या सा सर्पस्य ज्ञानाकारेण परिणमते सर्पसर्पज्ञानयोरुत्पत्नौ निमित्तं रज्वावरणभंगाभावोस्ति साधिष्ठानज्ञानं च द्वयोर्विनाशे कारभवति ॥
For Private and Personal Use Only