SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जन्मान्तरसहस्रेषु या बुद्धिर्भाविता पुरा । तमेव भजते जन्तुरुपदेशो निरर्थकः || ६४६ ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः । प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ ६४७ ॥ मिता० - प्रतिजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः ।। ६४८ || अहङ्कारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्माऽयं मुक्तपूर्वः कदाचन ॥ ६४९ ॥ मनु - यादृशेन तु भावेन यद्यत्कर्म निषेवते । तादृशेन शरीरेण तत्फलमथाश्नुते ।। ६५० ॥ अथ भावे. मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्ग मुक्तेर्निर्विषयं मनः ।। ६५१ ॥ विषयेभ्यः समाहृत्य विज्ञानात्मा महामुनिः । चिन्तयेन्मुक्तये येन परं ब्रह्म परेश्वरम् ॥ ६५२ ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ।। ६५३ ।। एवमम्यच्च वै शिष्य ! युक्तधर्मोपलक्षणम् । यस्य योगः स वै योगी मुमुक्षुरभिधीयते ।। ६५४ ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषा मानसनिग्रहात् ।। ६५५ ॥ मनसश्चेन्द्रियाणां च ये नित्यं संयमे रताः । त्यक्तलोभभयक्रोधास्ते नरा स्वर्गगामिनः ।। ६५६ ॥ दानमिज्या तपः शौचं तीर्थं वेदाः श्रुतं तथा । अशान्तमनसः पुंसः सर्वमेतदनर्थकम् ॥ ६५७ ॥ यस्य वाग्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा । स वै च सर्वमाप्नोति वेदान्तोपगतं फलम् || ६५८ ॥ वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ ६५९ ॥ विष्णुपु० - मिता - इति० - www.kobatirth.org मनु० For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy