SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir NACHCRESCRECARROP मिता०- देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं तूदित कचित् ।। २५२ ॥ इति०- दुःखं ददाति योऽन्यस्य भूयो दुःखं च विन्दति । तस्मान्न कस्यचिदुःखं दातव्यं दुःखभीरुणा ॥ २५३ ॥ तुर्यार०- दानान्न दुष्करतरं पृथिव्यामस्ति किश्चन । अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥ २५४ ।। पात्रे स्वल्पमपि दानं कालं दानं युधिष्ठिर ! । मनसा सुविशुद्धन प्रेत्यानन्तफलं स्मृतम् ॥ २५५ ।। पात्रे दत्त्वा दानं प्रियाण्युक्त्वा च भारत ! । अहिंसानिरतः स्वर्ग गच्छेदिति मतिर्मम ॥ २५६ ॥ अथ पात्रे मिना०- न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तं समेष्येत तद्धि पात्रं प्रकीर्तितम् ॥ २५७ ।। विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृहणन्मदातारमधो नयत्यात्मनमेव च ॥ २५८ ॥ प्रतिग्रहसमर्थोपि नादत्तो य प्रतीयहम् । य लोका दानशीलानां स तानाप्नोति पुष्कलान् (१) ॥ २५९ ॥ पुनर्भोजनमध्यानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक् त्वष्ट वर्जयेत् ॥ २६ ॥ कर्मनिष्ठास्तपोनिष्ठाः पश्चाग्निब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदे ॥ २६१ ।। विष्णु- पापेऽप्यपापपुरुषोऽप्यधिते प्रियाणि यः । मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता ॥ २६२ ॥ ये कामक्रोधलोभादीन्वीतरागा न कुर्वते । सदाचारस्थितास्तेषामतुर्भावैधृतामहे (१) ॥ २६३ ॥ धर्मशास्खे- किञ्चिद्वेदमयं पात्रं किश्चित्पात्रं तपोमयम् । पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥ २६४ ॥ शूद्रान्नेनोदरस्थेन यदि कश्चिन्मृतो द्विजः । स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ २६५ ।। %A52PLOCKR For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy