SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदा गीतायाम- विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके तु पण्डिताः समदर्शिनः ॥ १७९ ।। आदित्यपु०- एकोपि बहुधास्मीति लीलया केवलः शिवः । ब्रह्मविष्ण्वादिरूपेण देवदेवो महेश्वरः ॥ १८ ॥ पृष्टो ब्रह्मादिभिर्देवैः कस्त्वं देवेति शङ्करः । अब्रवीदहमेवैको नान्यः कश्चिदिति श्रुतिः ।। १८१ ॥ सृजन्ते बहवो रुद्रा अनन्ताश्च चतुर्मुखाः । नारायणाश्च संख्याता देवदेवेन शम्भुना ॥ १८२ ॥ न तस्मादधिकःकश्चिन्नाणीयानपि कश्चन । तेनेदमखिलं पूर्ण शङ्करेण महात्मना ।। १८३ ॥ पृथिव्यां तिष्ठति विभुः पृथिवी वेत्ति नैव तम् । रूपं च पृथिवी तस्य तस्मै भूतात्मने नमः ॥१८४ ॥ अप्सु तिष्ठति नैवापस्तं विदुः परमेश्वरम् । आपो रूपं च यस्यैवं नमस्तस्मै जलात्मने ॥ १८५ ॥ योनौ तिष्ठत्यमेयात्मा न तं वक्ति कदाचन । अग्निरूपं भवेद्यस्य तस्मै वह्वयात्मने नमः ॥ १८६ ।। तिष्ठत्यजस्रं यो वायौ न वायुर्वेत्ति तं हरम् । वायुर्यस्य भवेद्रुपं तस्मै वाय्वात्मने नमः ॥ १८७ ॥ वैष्णवानां सहस्रेभ्यः शिवभक्तो विशिष्यते । यदि पापरतात्क्रूरःस्वाश्रमाचारवर्जितः॥ १८८ ॥ प्रसङ्गात्कौतुकाल्लोभाद्भयांदज्ञानतोऽपि वा । हर इत्युच्चरन्मर्त्यः सर्वपापैः प्रमुच्यते ॥ १८९ ॥ यज्ञेऽप्यहिसैव नास्ति पाणिवधा यज्ञे ध्रुवम् । अहिंसैव हि भूतानां सदा यज्ञो युधिष्ठिर ! ॥ १९० ।। शुकसंवादे- सत्यं यूपं तपो ह्यग्निः प्राणा:समाधयो मताः । अहिंसामाहुति दद्यादेष यज्ञः सनातनः ॥ १९१ ।। तपोध्यौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरुत्तम ! ॥ १९२ ॥ विष्णु पु०-नैतद्युक्तिसह वाक्यं हिंसा धर्माय नेष्यते । हवींष्यन लदग्धानि फलायेत्यर्भकोदितम् ॥ १९३ ॥ । अहिंसामाहुर्ति ०- नैतयुक्तिसवस्य दममारुतदीपित For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy