SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RECRUGREEKRECRUCUORE तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥ ४८॥ कथमुत्पद्यते धर्मः कथं धर्मो विवर्द्धते । कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ? ॥४९॥ सत्येनोत्पद्यते धर्मो दयादानेन वर्द्धते । क्षमयाऽवस्थाप्यते धर्मः क्रोधलोभाद्विनश्यति ।। ५०॥ अथ सत्ये मनुस्मृतौ-सत्यं ब्रूयात्मियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं नानृतं ब्रूयादेष धर्मः सनातनः ॥५१॥ विष्णुपुराणे-तस्मात्सत्यं वदेत्यज्ञो यत् परमीतिकारणम् । सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ।। ५२ ॥ प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तत्र हितं वाक्यं यद्यप्यत्यन्तमप्रियम् ॥ ५३॥ आदिपर्वणि-पृष्टः साक्षी तु यः साक्ष्यं जानानोप्यन्यथा वदन् । स पूर्वानात्मनः सप्तकुलान्हन्यात्तथापरान् ॥ ५४ ।। यश्च कार्यार्थ तत्त्वज्ञो जानानोपि न भाषते । सोपि तेनैव पापेन लिप्यते नात्र संशयः ॥ ५५ ॥ अश्वमेधसहस्रं तु सत्यं तु तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥५६॥ सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन् ! समं वा स्यान्नवा समम् ॥ ५७ ॥ नास्ति सत्यात् परो धर्मो न सत्याद्विद्यते परम् । नहि तीव्रतरं किञ्चिदनृतादिह कथ्यते ॥ ५८॥ तुर्यारण्यके-सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः । दुर्जेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः ॥ ५९॥ मनुस्मृतौ-साक्षी दृष्टश्रुतादरद्धि वनार्यसंसदि । अवाङ्नरकमेवैतः प्रेत्य स्वर्गाच हीयते ॥६॥ यावतो बान्धवान् यस्मिन् इन्ति साक्ष्येऽनृतं वदन् । तावतः संख्यया तस्मिञ्शृणु सौम्यानुपूर्वशः ॥ ६१ ॥ For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy