SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ उगादिकोषः ॥ - कृत्र उच्च ॥ ३३॥ कुरीरम् ॥ ३३ ॥ घसः किच ॥ ३४ ॥ क्षीरम् ॥ ३४ ॥ गभीरगम्भीरौ ॥ ३५ ॥ विषाविहा ॥ ३६ ॥ पच एलिमच् ॥ ३७॥ पचेलिमः ॥ ३७॥ शीङो धुक्लकवलवालनः ॥ ३८ ॥ शीधु । शीलम् । शैवलः । शेवालम् । शेपालः ॥ ३८॥ मृकणिभ्यामूकोकणौ ॥ ३९ ॥ मरूकः । काणूकः ॥३९॥ (३३ ) क्रियते तत् कुरीरम् । मैथुनं वा । कपिलकादित्वाल्लत्वे कुलीरः। जलजन्तुभेदो वा ॥ (३४ ) अद्यते भक्ष्यते यत्तत् क्षीरं दुग्धं वा ॥ (३५ ) गमधातोर्मकारस्य भकार एकस्मिन पक्षे नुमागमश्च । गम्यते प्राप्यते ज्ञायते वा स गभीरः शान्तो महाशयो वा। विशेष्यालगावेतौ शब्दौ ॥ (३६) विशेषेण स्थति कर्मान्तं करोतीति विषा । बुद्धिी । विशेषण जहाति त्यजति दुःखमिति विहा। सुखलोको वा । स्वभावाइनयोरव्ययत्वम् ॥ (३७) पचति पदार्थानिति पचेलिमः । अग्निः सूर्यो वा। यस्तु पचधातोः सामान्यवार्तिकेन कृत्यार्थ केलिमज् विधीयते स भावे कर्मणि कर्मकर्तरि वेतिभेदः ॥ (३८) शेते येन तत् शधुि । मद्यं वा । शीलं स्वभावः । शैवलम् । शेवालम् । बाहुलकात्-प्रत्ययवकारस्य पकारः । शेपालम् । जलनील्या नामान्येतानि । उदके लतारूपमुत्पन्नं सेवार इति प्रसिद्धम् ॥ (३६) म्रियते असौ मरूकः । मृगो वा । कति शब्दयतीति काणूकः काको वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy