SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा० ३॥ वृतवदिवचिवसिहनिकमिकषिभ्यः सः ॥६२॥ वर्षम् । तर्षः। वत्सः । वक्षः । वत्सम् । हंसः । कंसः । कक्षम् ॥६२॥ प्लुषेरचोपधायाः ।। ६३ ॥ प्लक्षः ॥ ६३ ॥ मनेर्दीर्घश्च ॥ ६४ ॥ मांसम् ॥ ६४ ॥ अशेर्देवने ॥ ६५ ॥ अक्षः ॥६५॥ स्नुवश्चिकत्यषिभ्यः कित्॥६६॥ स्नुषा । वृक्षः।कत्सम् । ऋक्षम् ॥ ६६ ॥ (६२) वृणोति स्वीकरोतीति वर्षम् । संवत्सरोवृष्टिरायावती मेघो वा। स्त्रियां बहुवचनान्तो वर्षाःप्रावृषि ऋतौ।तरति येन यत्र वा स तर्षः ।समुद्रो वा। वदतोति वत्सः। बालो वा वयस्मिन्निति वक्षः। वक्षःस्थलं वा। वसयस्मिन्निति वत्सम्। निवासस्थानंवा। हन्तीति हंसा निीभः सूर्यः पक्षिभेदो श्वभेदः शरीरस्थो वायुवी । कामयते परपदार्थानिति कंसः । तैजसद्रव्यं पात्रतस्करो वा । कतिहिनस्तीति कक्षमा तणं लतावनसमीपं बाहुमलं वा। बाहुलकात-राजते दोप्यते सा राक्षा लाक्षा । कपिलकादित्वाल्लत्वम् । यौतीति योषा स्त्री वा॥ (६३ ) प्लोषति दहतीति प्लक्षः । पिप्पलं पर्कटी वा । पारि इति प्रसिद्धा । द्वीपभेदो गृहस्य द्वारपाव वा ॥ (६४ ) मन्यते ज्ञायतेऽनेन तन्मांसम् । शरीरोपचयो वा ॥ (६५) अश्नुते व्याप्नोतीत्यक्षः । अक्षाणीन्द्रियाणि तुषं चक्र शकटं व्यवहारो वा ॥ (६६ ) स्नौति प्रस्रवतीति स्नुषा । यवीयसो भ्रातुर्भायाँ वा।वृश्च्यते छिद्यतेऽसौ वृक्षः। वृक्षवरण इत्यस्मादपीगुपधात् के प्रत्यये वृक्ष इतिसिध्यति। अर्थभेदायात्र वृश्चिग्रहणं तेन छेद्यत्वात कार्य जगदपि वृक्ष उच्यते । कुन्तति छिनतीति कृत्समुदकम् । ऋषति गच्छतीति ऋक्षम् । नक्षत्रसामान्यं वा । बाहुलकात-समन्तान्मपति हिनस्तीत्यामिक्षा। क्षीरविकारो वा। लिभ्यतेऽल्पाभवतीति लिक्षा । शिरः केशजन्तुर्वा । रोहति वीजाज्जायतेसा रक्षः । वृक्षजातिः प्रीतिहीनो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy