SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ शृणातेर्हस्वश्च ।। १२६ ।। शृङ्गः ।। १२६ ।। गए शकुनौ ॥ १२७ ॥ शार्ङ्गः ॥ १२७ ॥ मुदिग्रोग्गौ ॥ १२८ ॥ मुद्गः । गर्गः ॥ १२८ ॥ अण्डन् कृसृभृवृञः ॥ १२९ ॥ करण्डः । सरण्डः । भरण्डः 1 e c वरण्डः ॥ १२९ ॥ शृदृभसोऽदिः ॥ १३० ॥ शरत् | दरत् । भसत् ॥ १३० ॥ : ( १२६ ) ति नुट् चेत्यनुवर्तते शृणाति हिनस्ति येन तत् शृङ्गम् विषाणं पर्वतानं मत्स्यभेद औषधिभेदः सुवर्णभेदा वा । ( १२० ) गणप्रत्ययस्य गित्वाद्वातोवृद्धिः पूर्वत्रनुट् च । शृणातीति शार्ङ्गः पक्षी । बाहुलकात्प्रत्ययस्यादा वकारागमेन शारङ्ग- इत्यपि सिद्धं भवति ॥ ( १२८ ) मुदधातोर्गक । मोदतेऽसौ मुद्गः अन्त्रभेदो वा । मुद्गान् लाति गृणातीति मुद्गलो मुनिः । यस्य गोत्रापत्यं मौद्गल्य इति प्रसिद्धम् । गृणात्युपदिशतीति गर्गः । ऋषिविशेषो वा । गृधातोर्गः प्रत्ययः ॥ ( १२६) कृप्रादिभ्योऽण्डन् प्रत्ययः । क्रियतेऽसौ करण्डः पुष्पभाण्डभेदः करण्डो वंशविकारपात्रम् । पिटारी इति प्रसिद्धा । सरति गच्छतीति सरण्डः पक्षी वा । विभर्त्ति पुष्यतीति भरण्डः स्वामी । वणोति स्वीकरोतीति वरण्डः । मुखरोगः सन्दोहोवा । बाहुलकात - तरति येन स तरङ्गः । जलतरणसाधनं वा । वनति संभजति धर्ममिति वतण्डः । ऋषिविशेषो वा । धातोस्तकारान्तादेशः । छमति भक्षयतीति छमण्डः । मातापितृशून्यो वा । शेतेऽसैौ शयण्डः।विषया वा इत्यादयः शब्दा बहुलवचनादेव सिद्धा भवन्ति । (१३) शुभसधातुभ्यो ऽदिः प्रत्ययः शृणाति हिनस्त्यस्मिन्निति शरत् । कालविशेष ऋतुर्वा । दीर्यतेऽदो दरत हृदयं कुलं वा । विभस्ति भर्त्सयति प्रकाशते वा । सभसत् जघनं वा । बाहुलकात् - पर्षति स्निह्यति प्रीतिकरं प्रसन्नं भवति चित्तमस्यां मा पर्षत् । सभा समाजो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy