SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादिकोषः ॥ लङ्घिबंह्यो लोपश्च ॥ २९ ॥ लघुः | बहुः ॥ २९ ॥ ऊर्णेीतेर्नुलोपश्च ॥ ३० ॥ ऊरुः ॥ ३० ॥ महति ह्रस्वश्च ॥ ३१ ॥ उरु ॥ ३१ ॥ लिपेः कश्च ॥ ३२ ॥ दिलकुः ॥ ३२ ॥ आङ् परयोः खनिशृभ्यां ङिच्च ॥ ३३॥ आखुः | परशुः ॥३३॥ हरिमितयोर्हुवः ॥ ३४ ॥ हरिद्रुः | मितद्रुः ॥ ३४ ॥ शते च ॥ ३५ ॥ शतद्रुः ॥ ३५ ॥ ( २६ ) लंघिहिभ्यां कुरनयोर्नलोपश्च । लङ्घति गन्तुं शक्नोतीति लघुः स्वल्पो वा । अस्यैव बालमूललघ्वसुरालमङ्गुलीनां वालोरत्वमापद्यत इति वार्तिकेन रेफः । रघु राजविशेषः । बंहते वर्धतेऽन्येभ्य इति बहुः। प्रचुरः सङ्ख्या वा ॥ ( ३० ) ऊर्णे त्याच्छादयति या सा ऊरुर्जङ्घा । कुप्रत्यये नुभागलीपः ॥ ( ३१ ) ऊर्णुधातोः कुप्रत्ययस्तस्मिन् नुभागलोप ऊकारस्य ह्रस्वत्वं चऊ त्याच्छादयत्यल्पा नित्युरु महत् ॥ (३२) श्लिष्यति पदार्थैः सह सम्बध्यते स श्लिकुः । परवशो ज्योतिषं वा ॥ ( ३३ ) आसमन्तात्खनति भूमिमित्या खुषको वराहो वा । परान् शत्रून शृणाति हिनस्ति येन स परशुः । शस्त्रभेदः कुठारो वा पृषोदरादित्वादकारलोपे पूर्वार्थ एव पर्शुरपि दृश्यते ॥ (३४) हरिणाश्वेन वा द्रवति गच्छतीति हरिदुः । दारुहरिद्रा वा । मितं परिमितं द्रवतीति मितद्रः शोभनगमनो वा ॥ (३) शतधा बहुप्रकारैर्द्रवति गच्छतीति शतद्रुः : । नदीभेोगङ्गा वा । अच बाहुलकात्केवलादपि द्रुधातोः कुप्रत्ययो दृश्यते । यं द्रवन्ति कार्यार्थं प्राणिनः प्राप्नुवन्तीति स दुर्वृक्षः शाखा वा । द्रवः शाखा अस्मिन् सन्तोति द्रुमो वृक्षः (द्युद्रुभ्यां मः ) इति सूत्रेण मत्वर्थी यो मः प्रत्ययः ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy