SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ गणपाठः॥ भाषितपुंसकशब्दात्परस्य समानाधिकरणस्त्रीलिङ्गे पूरणीप्रियादिवजिते उत्तरपदे परतः पुंशब्दस्येवरूपं भवति । दर्शनीया भार्या यस्य स दर्शनीयमार्यः । दीर्घनकः। अप्रियादिस्वितिकिम् । कल्याणीप्रियः : - . प्रिया । मनोज्ञा । कल्याणी । सुमगा । दुर्गा । भक्तिः । सचिता । अम्बा । का. न्ता। क्षान्ता । समा । चपला । दुहिता । वामा ॥ इति प्रियादयः ।। १७५-वनगिर्योः संज्ञायांकोटरकिंशुलकादीनाम् ॥ भ०॥६।३।११७॥ वन, गिरि, इत्येतयोरुत्तरपदयोः परयोर्यथासंख्य कोटरादीनां किंशुलकादीनां च सं. ज्ञायां विषये दी| भवति । कोटरावणम् । किंशुलकागिरिः : कोटर । मिश्रक । पुरक । सिधक । सारिक । इति कोटरादयः ॥ किंशुलक । साल्वक । अन्जन । लोहित । कुक्कुट । इति किंशुलकादयः ।। १७६-मतौ बह्वचोऽनजिरादीनाम् ॥०॥६॥३।११९॥ मतौ प्रत्यये परतोऽनिरादिवर्जितस्य बद्दचो दीर्घो भवति संज्ञायां विषये । उदुम्ब रावती । मशकावती । अमरावती । अननिरादीनामिति किम् :. अजिरवती। खदिरवती। पुलिनवती । हंसकारण्डवती । चक्रवाकवती । इत्यनिरादयः ॥ १७७-शरादीनां च ॥०॥ ६ । ३ । १२० ॥ संज्ञायां विषये मतौ परतः शरादीनां च दी? मवति । शरावती । वंशावती :शर । वंश । धूम । अहि । कपि । मणि । मुनि । शुचि । हनु । इति शरादयः ॥ १७८-हारादीना च ॥०॥ ७॥ ३ ॥४॥ .. द्वारादीनां युवाभ्यामुत्तरस्याचामादेरचः स्थाने वृद्धिन मवति । किन्तुपुवाम्यां पूविनागमौ भवतः । द्वारेनियुक्तः, दौवारिकः । स्वरमधिकृत्य कृतो ग्रन्थः, सौवरः :- | द्वार । स्वर । व्यल्कश । स्वस्ति । स्फयकृत । स्वादुमृदु । श्वन्स्व । इति द्वारादयः ।। १७९-स्वागतादानां च ॥ भ०॥७।३ । ७॥ स्वागतादीनों शब्दानां यवाभ्यां पूर्वी जित् णित् कित् तद्धिते परत ऐनागमो न मवतः वृद्धिस्तुमवत्येव । स्वागतमित्याह स्वागतिकः । स्वाध्वरेण चरति,स्वावरिकः :स्वागत । स्वध्वर । स्वङ्ग । व्यङ्ग । व्यङ । व्यवहार । स्वपति । इतिस्वागतादयः।। १८०-अनुशतिकादीनां च ॥ म०॥७॥ ३ ॥२०॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy