SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २४ गणपाठः॥ ६२-पाशादिभ्यो यः ॥ अ० ॥ १।२ । १९ ॥ षष्ठीसमर्थपाशादिभ्यः समूहार्थे यः प्रत्ययो भवति । पाशानां समूहः पाश्या रज्जः । तृण्या : पाश । तृण । धूम । वात । अङ्गार । पोत । बालक । पिटक । पिटाक । शकट । | हल । नड । वन । पाटलका । गल । इति पाशादयः ॥ ६३--राजन्यादिभ्यो वुत्र ॥ अ. ॥४।२। ५३ ॥ ___ राजन्यादिप्रातिपदिकेभ्यो विषयो देश इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति । राजन्यानां विषयो देशः, राजन्यकः :-- राजन्य । देवयान । शालङ्कायन । जालन्धरायण । प्रात्मकामेय । अम्बरीषपुत्र । वसाति । वैलवान। शैलूप । उदुम्बर । बैल्ववल । आर्जुनायन । संप्रिय । दाक्षि । ऊर्णनाभ । आप्रीत । अब्रीड । वैतिल । वात्रक ( १ ) इति राजन्यादयः ॥ ६४-भौरिक्यायषुकार्यादिभ्यो विधलभक्तलौ ॥१०॥४॥५४॥ विषयो देश इत्येतस्मिन् विषये षष्ठीसमर्थेभ्यो भौरिक्यादिम्य ऐषुकायर्यादिभ्यश्च यथासंख्यविधलभक्तलौ प्रत्ययौ भवतः । अणोऽपवादः । भौरिकीणां विषयो देशः, भौरिकिविधः । ऐषुकारिभक्तः ॥ · भौरिकि । भौलिकि । वैपेय । चैटयत । काणेय । वाणिजक । कालिज । वालिज्यक । शैकयत । वैकयत । इति भौरिक्यादयः ॥ ऐषुकारि । सारस्यायन । चान्द्रायण । द्वयाक्षायण । व्यायण । औडायन । जौलायन । खाडायन । सौवीर । दासमित्रि । दासमित्रायण । शौद्रायण । दाक्षायण । शयण्ड । ताायण । शौभ्रायण । सायण्डि । शौण्डि । वैश्वमाणव । वैश्वधेनव । नद । तुण्डदेव । अलायत । औलालायत । शौएड । शयाण्ड । वैश्वदेव ॥ इत्यैषुकार्यादयः ॥ . ६५-ऋतूकथादिसूत्रान्ताट्ठक् ॥ भ० ॥४।२। ६० ॥ तदधीते तद्वदेत्यस्मिन् विषये ऋतुविशेषवाचिभ्य उकथादिभ्यः सूत्रान्ताच्च प्रातिपदिकाट ठक् प्रत्ययो भवति । अणोऽपवादः । अग्निष्टोममधीते वेद वा आग्निष्टोमिकः वाजपैयिकः । औथिकः । वात्तिकसूत्रमधीते । वार्तिकसूत्रिकः । सांग्रहसूत्रिकः : ... (१)अयमाकृतिगणस्तेन मालवानां विषयो देशः। मालवकः । वैराटकः । गर्त्त| कः । इत्यादयः शब्दाः सिद्धा भवन्ति ।। For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy