SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ मातरिपुरुषः । पिण्डीशूरः । गेहेशूरः । गेहेनर्दी । गेहेक्ष्वेडी । गेहेविनिती । गेहेव्याडः । गेहेतृप्तः । गेहेधृष्टः । गर्भेतृप्तः । आखनिकवकः । गोष्ठेशूरः। गोष्ठेविनिता । गोप्ठे. वेडी । गेहेमेही । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः । कर्णटिटिभः । कर्णेचुरचुरा । प्राकृतिगणोयम् ॥ १०-उपमितं व्याघ्रादिभिः सामान्याप्रयोगे॥०॥२॥१५६॥ सामान्यधर्मस्याप्रयोगे सत्युपमेयवाचि सुबन्तमुपमानवचनेव्याघ्रादिमिः सह विभाषा समस्यते स समानाधिकरणतत्पुरुषः समासो भवति व्याघ्र इव पुरुषः पुरुषव्याघ्रः। पुरुषसिंहः । इत्यादि । सामान्याप्रयोग इति किम् । पुरुषो व्याघ्र इव शूरः । उपमानोपमेयप्रधानो धर्मः शूरत्वमत्र प्रयुज्यतेऽतः समासनिषेधः व्याघ्र । सिंह । ऋक्ष । ऋषभ । चन्दन । वृक्ष । वृष । वराह । हस्तिन्। कुञ्जर रुरु । पृषत् । पुण्डरीक । बलाहक ( १ ) आकृतिगणोऽयम् । इति व्याघ्रादयः ॥ ११-श्रेण्यादयः कृतादिभिः॥०॥२।१। ५९ श्रेण्यादयः सुवन्ताःकृतादिमिः समानाधिकरणैः सह विभाषा समस्यन्ते । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः ( २) एककृता वसन्ति वणिजः । इत्यादिश्रेणि । एक । पूग । कुण्ड । राशि । विशिख । निचय । निधान । इन्द्र । देव । मुण्ड । भूत । श्रवण । वदान्य । अध्यापक । ब्राह्मण । क्षत्रिय । पटु । पण्डित । कुशल । चपल । निपुण । कृपण । इतिश्रेण्यादयः । कृत । मित । मत । भूत । उक्त । समाज्ञात। समानात । समाख्यात । सम्भावित । अवधारित । निराकृत । अवकल्पित । उपकृत। उपाकृत । प्राकृतिगणोऽयम् । इति कृतादयः ॥ १२-वाकतापकतादीनामुपसंख्यानम् (३)॥२॥१६॥ कृतापकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । यातानुयातम् । क्रयाक्रयिका । पुटापुटिका । फलाफलिका । मानोन्मानिका । इतिकृतापकृतादयः । (१)अत्राकृतिगणनेदमपि सिद्धं भवति । मुखं पद्ममिव, मुखपद्मम् । मुखकमलम् । करकिसलयम् । पार्थिवचन्द्रः ।। ( २ )अत्र श्रेण्यादिषु च्च्यर्थ वचनीमति वात्तिकेन च्च्यर्थलाभः । यदा च च्व्यन्ताः श्रेण्यादयस्तदा च्चिप्रत्ययान्तानां गतिसंज्ञत्वात्गतिप्रादय इति नित्यसमासः श्रेणीकृताः इत्यादि ॥ (३) अनविशिष्टक्तान्तेनापि समासो यथास्यादिति वात्तिकम् । कृतचापकृतं च कृतापकृतं । वार्तिकोपरि तत्सूत्रसंख्या सर्वत्र धरिष्यते । यस्योपरि महाभाष्ये वार्तिकमस्ति। For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy