________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरते गमनागमनप्रकरणम् । (१९१) शुभप्रदेशे सह भार्यया चेत्संगच्छते दक्षिणगो विहंगः ॥ आगत्य देशांतरतोऽध्वनीनः स्वगेहसौख्यान्युपलप्सते तत् ॥ २९६॥ कृत्वा शब्दं पृच्छतो वामभागे पक्षी वृक्षं हृद्यमेवाधितिष्ठन् ॥ आगच्छंतं साधिताशेषकार्य पथिं जल्प. त्यर्धमार्गावतीर्णम् ॥२९७॥ वामस्वरस्तारगतिविहंगः शुष्कं समारोहति पादपं चेत् ॥ रुजार्दितो वाप्यथ लुंठितो वा दिगंतरात्तत्पथिकोऽभ्युपैति ॥ २९८ ॥ विधाय नादं यदि वामभागे तिरोहितत्वं भजते सुदेशे ॥ तत्रैवं पांथः कुशली तदास्ते दुःखी समायाति पुनः कुदेशे ॥ २९९ ॥
॥ टीका ॥ श्यामा दक्षिणा स्यात्तदा पांथस्तदवाप्तवित्त इति स चासाववाप्तवित्तश्चेति समासः। अन्यथा तच्छब्दस्यानर्थक्यं स्यात् । आयाति स्वगृहमिति शेषः । या प्रश्ने कृते स्थिरा मौनिनोवा तिष्ठति सा गत्यागमयोः स्थिरत्वं वक्ति ॥ २९५ ॥ शुभ इति ॥ यदि दक्षिणो विहंगः सहभार्यया शुभप्रदेशे संगच्छते तदा अध्वनीना देशांतरतः आगत्य स्वगेहसौख्यानि उपलप्स्यते ॥ २९६ ॥ कृत्वेति ॥ पृच्छतः पुंसः यदि शब्दं कृत्वा पक्षी वामभागे दक्षिणभागस्थं हृद्यमेव वृक्षमधितिष्ठन् तदा आगच्छंत पायम् अर्धमार्गावतीर्ण जल्पतिाकीदृशं साधिताशेषकार्यमिति साधितं निष्पादितमशेष कार्य येन स तथा॥२९७ ॥वाम इति ॥ चेदामस्वरः तारगतिविहंगः शुष्कं पादपं समारोहति तदा रुगार्दितः लुंठितो वा देशांतरात्तत्पथिकः अभ्युपैति ॥ २९८ ॥ विधायेति ।। यदि वामभागे नादं विधाय सुदेशे तिरोहितत्वमदृश्यत्वं
॥ भाषा ॥ प्राप्त होयकरके अपने घरकूँ आवे. जो श्यामा शकुनमें स्थिरा वा मौनिनी होय तब गमनमें और आगमनमें स्थिरता कहनो ॥ २९५ ॥ शुभ इति ।। जो विहंग दक्षिणभागमें शुभदेशमें स्त्री पोदकीकरके मिलापकरै तब परदेशगयो पुरुष परदेशते आयकरके अपने घरके सौख्य भोगे ॥ २९६ ॥ कृत्वेति ॥ पृच्छक पुरुषके जो पोदकी वामभागमें शब्दकरके दक्षिणभागमें मनोहरसुगंधवान् वृक्षौ स्थित होय तो परदेशगयो संपूर्णकार्यकर आधे मा
में आयो कहैहै ॥ २९७ ॥वामस्वरेति ॥ जो विहंग वामस्वरकर दक्षिणगति होय शु. कक्षौ चढ जाय तो परदेश गयोपुरुष देशांतरते रोगादित होयकर आवे ॥२९८॥ विधायेति
For Private And Personal Use Only