SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [ 373 :३८.९ 373) इह पंथे मा वच्चसु गयवइ भणियं भुयं पसारेवि । पंथिय पियपयमुद्दा मइलिज्जइ तुज्झ गमणेण ।। ९ ।। ३९. विरहवज्जा [विरहपद्धतिः] 374) अज्जं चेय पउत्थो उज्जागरओ जणस्स अज्जेय । अज्जेय हलद्दीपिंजराइ गोलाइ तूहाई ॥ १॥ 375) अज्जं चेय पउत्थो अज्ज चिय सुन्नयाइ जायाई। रच्छामुहदेउलचच्चराइ अम्हं च हिययाई ॥२॥ 313 वृषभ, सुभग, वार्यमाणोऽपि यदि न तिष्ठसि, तदास्मभ्यं लक्ष्म्या वासः कमलं तस्य वासः पानीयं तद् दत्त्वा बजेति ।। ३७२ ।। 373) [ अस्मिन्पथि मा व्रज गतपतिकया भणितं भुजं प्रसार्य ।। पथिक प्रियपदमुद्रा मलिनी क्रियते तब गमनेन ॥] हे पथिक अस्मिन् पथि मा व्रजेति गतपतिकया भुजं प्रसार्य भणितम् । प्रियपदमुद्रा, गतस्य प्रियस्य चरणलाञ्छनं, तव गमनेन मलिनीकियते, प्रोञ्छ्यत इत्यर्थः । अयं भावः । गतस्य प्रेयसश्चरणमुद्रां पश्यन्ती जीवामीति वियोगिनीवाक्यम् ।। ३७३।। ____374) [ अद्यैव प्रोपित उज्जागरो जनस्याद्यैव । अद्यैव हरिद्रापिञ्जराणि गोदावर्यास्तटानि ॥ ] अद्यैव प्रोषितोऽद्यैव जनस्योज्जागरोऽद्यैव हरिद्रापिञ्जराणि गोदावर्यास्तटानि । अयं भावः । काचन नारी तत्क्षणादेव प्रोषितं प्रियं दृष्ट्वा विरहासहत्वात् प्रलपितुमिदमारब्धवती। तस्मिन् मत्प्रिये प्रोषिते जनस्याद्योज्जागरो चौरभयत्वात् । तेन सुभटेन विना को नाम रक्षां करोति । अद्यैव हरिद्रापिञ्जराणि गोदावर्यास्तटानि । तस्मिन् सति सर्वा अपि नार्य आत्मवपूंषि हरिद्रापिञ्जराणि प्रत्यहं चक्रुस्तं कामुकाः । इदानीं च तस्मिन्प्रोषिते किमनेन हरिद्वारागेणास्माकमिति गोदावर्यां तत्क्षणादेव गवाक्षालयन्निति नदीतटपीतत्वम् | तृहं तटम् ।। ३७४ ।। 375) [ अद्यैव प्रोषितोऽद्यैव शून्यानि जातानि। रथ्यामुखदेवकुलचत्वराण्यस्माकं च हृदयानि ॥ ] अद्यैव प्रोषितोऽद्यैव शून्यानि जातान्यस्मदूहृदयानि । न केवलं तानि रथ्यामुखदेवकुलचत्वराणि । अयं भावः । For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy