SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १०२९ ॥ www.kobatirth.org ज्ञानावरणरूपं पंचविधं कर्म, पश्चान्नवविधं दर्शनावरणीयं कर्म, चक्षुर्दर्शनाऽचक्षुदर्शनावधिदर्शन केवलदर्शनावरणं, निद्रापंचकं, चैवं नवविधं दर्शनावरणीयं कर्म ततः पश्चात्पंचविधमंतरायं, एतानि त्रीणि 'क|म्मंस्से' इति सत्कर्माणि विद्यमानानि त्रीणि कर्माणि युगपत्क्षपयति, क्षपकश्रेणिमारूढः सन् समकालं क्षयं नयतीत्यर्थः ततः पश्चादनंतरं तेषां कर्मणां क्षयीकरणादनंतरमनुत्तरं सर्वेभ्यः प्रधानं, अनंतमनंतार्थग्राहकं कृत्स्नं समस्तवस्तुपर्यायग्राहकं, प्रतिपूर्ण सकलैः स्वपरपर्यायैः सहितं, निरावरणं समस्तावरणरहितं वितिमिरमज्ञानांशरहितं विशुद्धं सर्वदोषरहितं, लोकालोकप्रभावकं लोकालोकयोः प्रकाशकारकं एतादृशं केवलज्ञानदर्शनं समुत्पादयति, यावत्सयोगी भवति, मनोवाक्कायानां योगो व्यापारस्तेन सह वर्तते इति सयोगी भवति, त्रयोदशगुणस्थाने यावत्तिष्टति, तावदीर्यापथिकं कर्म भाति ईरणमीर्या गतिस्तस्याः पंथा ईर्यापथः, ईर्यापथे भवमीर्यापथिकं पथो ग्रहणं ह्युपलक्षणं, तस्य तिष्टतोऽपि सयोगस्येर्याया संभवात्, सयोगतायां केवलिनोऽपि सूक्ष्मसंचाराः संति तदीर्यापथिकं कर्म कीदृशं भवति ? तदुच्यते - सुखयतीति सुखः, सुखः सुखकारी स्पर्श आत्मप्रदेशैः सह संश्लेषो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं । ।। १०२९ ।।
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy