SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir उत्तरा ॥९६३॥ नत्थि अमोक्खस्स निवाणं ॥३०॥ व्याख्या-अदर्शनिनः सम्यक्त्वरहितस्य ज्ञानं नास्ति, इत्यनेन सटीकं सम्यक्त्वं विना सम्यग्ज्ञानं न स्यादित्यर्थः. ज्ञानविना चारित्रगुणाः, चारित्रं पंचमहाव्रतरूपं, तस्य गुणाः पिंडविशुद्धयादयः करणचरणसप्ततिरूपा न भवंति. अगुणिनश्चारित्रगुणै रहितस्य मोक्षः कर्मक्षयो नास्ति, अमोक्षस्य कर्मक्षयरहितस्य निर्वाणं मुक्तिसुखप्राप्ति स्ति. ॥ ३०॥ अथ सम्यक्त्वस्याष्टावाचारानाह ॥ मूलम् ॥-निस्संकिय निकंखिय । निवितिगिच्छा अमूढदिट्टी य ॥ उववूहथिरीकरणे । व-| च्छल्लपभावणे अट्ट ॥ ३१ ॥ व्याख्या-निःशंकितत्वं देशतः सर्वतश्च शंकारहितत्वं, पुनर्निःकांक्षितत्वं शाक्याद्यन्यदर्शनग्रहणवांछारहितत्वं. निर्विचिकित्स्यं फलंप्रति संदेहकरणं विचिकित्सा, निर्गता विचिकित्सा निर्विचिकित्सा, तस्या भावो निर्विचिकित्स्यं. किमेतस्य तपःप्रभृतिक्लेशस्य फलं वर्तते न वेति लक्षणं. अथवा विदंतीति विदः साधवः, तेषां विजुगुप्सा, किमेते मलमलिनदेहाः? अचित्त5 पानीयेन देहं प्रक्षालयतां को दोषः स्यादित्यादिनिंदा, तदभावो निर्विजुगुप्स्यं. प्राकृतार्षत्वात्सूत्रे ४॥९६३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy