SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie उत्तरा सटीक ॥९४५॥ OMRESHWAROSAGE कीदृशीं? ' तच्चं' इति तथ्यामवितथा सत्यां तत्वरूपां, पुनः कीदृशीं? चतुर्भिः कारणैः संयुक्तां चतुः कारणसंयुक्तां, पुनः कीदृशीं ? ज्ञानदर्शनलक्षणां, ज्ञानं च दर्शनं च लक्षणं स्वरूपं यस्याः सा ज्ञानका दर्शनलक्षणा, ता. ॥१॥ अथ तानि चतुःकारणान्याह ॥मूलम् ॥-नाणं च दंसणं चेव । चरितं च तवो तहा ॥ एय मग्गे सुपन्नत्ते । जिणेहि वरदसिहिं ॥२॥ व्याख्या-एष चतुःकारणरूपो मोक्षमागों जिनैः केवलिभिस्तीर्थकरैश्च प्रज्ञप्तः कथितः, कीदृशैर्जिनैः? वरदर्शिभिः, वरमव्यभिचारित्वेन वस्तुस्वरूपं दृष्टुं शीलं येषां ते वरदर्शिनः, तैर्वरदशिभिः, सम्यग्ज्ञानदर्शनवनिरित्यर्थः. अथ चतुर्णा कारणानां नामानि-प्रथमं कारणं ज्ञानं, यथास्वरूपस्थानां वस्तूनां विशेषेणावबोधो ज्ञानं, ज्ञायतेऽनेनेति ज्ञानं, तदिह सम्यग्ज्ञानमुच्यते. च पुनद्वितीयं कारणं दर्शनं, वस्तूनां यथास्वरूपस्थानां सामान्यप्रकारेणावबोधो दर्शनं, दृश्यतेऽनेनेति दर्शनं, तदप्यत्र सम्यग्दर्शनमुच्यते. चैवशब्दः पादपूरणे. विशेषावबोधात्मकं ज्ञानं, सामान्यावबोधात्मकं दर्शनमिति ज्ञानदर्शनयो दः. च पुनस्तृतीयं कारणं चारित्रं, चर्यते प्राप्यते मोक्षोऽनेनेति चरित्र GARHKARS For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy