SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा- ॥८३८॥ यत्तीर्थकररुक्तं तल्लोकस्य प्रत्ययार्थ, लोकस्य गृहस्थस्य प्रत्ययाथ, यतो हि साधुवेषं लंचनाद्याचारं च सटाक दृष्ट्राऽमी तिन इति प्रतीतिरुत्पद्यते. अन्यथा विडंबकाः पाखडिनोऽपि पूजाद्यर्थ वयं वतिन इति ब्रुवीरन्, ततश्च व्रतिष्वप्रतीतिः स्यात् , अतो नानाविधविकल्पनं लिङ्गप्रयोजनं च पुनर्यात्रार्थं संयमस्य निर्वाहार्थ. यतो हि वर्षाकल्पादिकं विना वृष्ट्यादिना संयमनिर्वाहो न स्यात् , तेन वर्षाकल्पादिकं वर्षर्तुयोग्याचारोपकरणधारणं च दर्शितं. पुनर्ग्रहणं ज्ञानं, तदर्थमिति ग्रहणार्थ ज्ञानायेत्यर्थः. यदि कदाचिच्चित्तविप्लवोत्पत्तिः स्यात्, परीषहोत्पत्ती संयमेऽरतिरुत्पद्यते, तदा साधुवेषधारी मनस्येतादृशं ज्ञानं कुर्यात् , यतोऽहं साधोद्वेषधार्यस्मि, यतो 'धम्म रक्खइ वेसो' इत्युक्तत्वात् . इत्यादि-18 हेतोर्लिङ्गधारणं ज्ञेयं. ॥ ३२॥ । मूलम् ॥-अह भवे पइन्नाओ । मोक्खसप्भूयसाहणे ॥ नाणं च दंसणं चेव । चरितं चेव निच्छए ॥ ३३ ॥ व्याख्या-पुनर्गौतमो वदति, हे केशीकुमारश्रमण! निश्चयनये मोक्षसद्भूतसाध IP॥८३८॥ नानि ज्ञानदर्शनचारित्राणि संति. मोक्षरूपस्य कार्यस्य ज्ञानदर्शनचारित्राणि सत्यानि साधनानि For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy