SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा A सटोर्क ॥८२२॥ % CAMPARAMA1504 फणाटोपं कृत्वा फणिशरीरेण भगवच्छरीरमावृत्य जलोपसर्ग च निवार्य भगवत्पुरो वेणुवीणागीतनिनादैः प्रवरं प्रेक्षणं कर्तुमारब्धवान्. कमठासुरस्तादृशमक्षोभ्यं भगवंतं धरणेंद्रकृतमहिमानं च दृष्ट्वा समुपशांतदर्पो भगवच्चरणी प्रणम्य गतो निजस्थाने. धरणेंद्रोऽपि भगवंतं निरुपसर्ग ज्ञात्वा । स्तुत्वा च स्वस्थानं गतवान्. पार्श्वस्वामिनो निष्क्रमणदिवसाच्चतुरशीतितमे दिवसे चैत्रकृष्णाष्टम्यामष्टमभक्तेन पूर्वाह्नसमयेऽशोकतरोरधः शिलापट्टे सुखनिषण्णस्य शुभध्यानेन क्षीणघातिकर्मचतुष्कस्य सकललोकावभासि केवलज्ञानं समुत्पन्नं. चलितासनैः शकैस्तत्रागत्य केवलज्ञानोत्सवो महान् कृतः. पाश्वोऽर्हन् सप्तफणाहिलांछनो वामदक्षिणपार्श्वयोवेरोट्याधरणेद्राभ्यां पर्युपास्यमानः प्रियंगुवर्णदेहो नवहस्तशरीरो भव्यसत्त्वान् प्रतिबोधयन् चतुस्त्रिंशदतिशयसमेतः पृथिवीमंडले विहरति. पार्श्वभगवतो दश गणधरा अभवन्. आर्यदिन्नप्रमुखाः षोडशसहस्रसाधवोऽभवन्. पुष्पचूलाप्रमुखा अष्टत्रिंशत्सहस्रार्यिका अभवन्. सुव्रतप्रमुखाः श्रमणोपासका एकं लक्षं चतुःषष्टिसहस्राश्चाभवन्. सुनंदाप्रमुखाः श्रमणोपासिका लक्षत्रयं सप्तविंशतिसहस्राश्चाभवन्. सार्धत्रीणि शतानि चतुर्दशपूर्वि ARISH For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy