SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie उत्तरा ॥८१८॥ HDHARAMPARANASI सेनस्य राज्ञो वामादेव्याः कुक्षी मध्यरात्रिसमये विशाखानक्षत्रे त्रयोविंशतितमतीर्थकरत्वेन समुत्प- सटोक न्नः. तस्यामेव रात्री सा वामादेवी चतुर्दशस्वप्नान् ददर्श, निवेदयामास च राज्ञः. तेनापि राज्ञातीवानंदमुद्वहता भणितं, प्रिये! सर्वलक्षणसंपूर्णः सर्वकलाकुशलस्तव पुत्रो भविष्यति. तद्वचः श्रुत्वा सुष्टुतरं परितुष्टा सा. प्रभाते च राज्ञा स्वप्नपाठकानाहय तान् यथार्थानाचख्यो. तेऽपि पूर्ण स्वप्नाध्यायं सविस्तरमाख्याय चतुर्दशस्वप्नानां फलमेवमाहुः, तीर्थकरमाता चक्रवर्तिमाता वा एतांश्चतुर्दश स्वप्नान् पश्यति. ततोऽस्याः कुक्षौ तीर्थकरश्चक्री वा समुत्पन्नोऽस्तीति स्वप्नानुसारेण. इदं च तेषां वचः श्रुत्वाऽानंदातिरेकेण पुलकिततनुभूपतिस्तानतीवसत्कारपूर्वं विसर्जितवान्. वामादेवी | सुखं सुखेन गर्भमुद्वहति. क्रमेण पूर्णेषु मासेषु शुभवेलायां भगवान् जातः. षट्पंचाशदिक्कुमारोभिजन्ममहोत्सवः पूर्वं कृतः. ततः स्वासनकंपाद्विज्ञातभगवजन्मभिः शरुशिरसि जन्माभिषेकः कृतः. प्रभाते चाश्वसेनोऽपि नगरांतर्दशाहिकोत्सवं कृतवान्. अस्मिन् गर्भ स्थिते भगवति जनन्या पाश्चे Pn८१८॥ गच्छन् सपों रात्रो दृष्टः, ततोऽस्य पार्श्व इति नाम कृतं. ततः कल्पतरुवज्जनानंदकः स भगवान् For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy