SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा॥७८६॥ ON-CHAMPCATEGORMA-540 सोऽद्य सफलो जातः. अन्यदा राजीमती साध्वीभिः समं भगवतो वंदनाथ रैवतगिरिं गच्छंत्यकस्मान्मेघवृष्ट्याऽभ्याहता. सर्वा अपि साध्योऽन्यगुहासुनिलीनाः.राजीमत्यप्येकस्यां गुहायां प्रविष्टाऽस्ति, तत्र च पूर्व रथनेमिसाधुः प्रविष्टो परमंधकारप्रदेशे स्थितोऽयं न दृष्टस्तया. ततस्तया चीवराणि सर्वाण्यप्युत्तारितानि, एवं सा निरावरणा जाता. तस्याः शरीरशोभां दृष्ट्वा, इंद्रियाणां च दुर्दाततयाऽनादिभवाभ्यस्ततया च विषयाभिप्रायेण स परवशो जातः, तादृशो रथनेमिश्च तया दृष्टः. ततो भयभ्रांता सा सद्य आत्मानं प्रावृत्य बाहुभ्यां संगोप्य च स्थिता. तेन भणिता हे सुतनु! तावदनुरागवशेनाहमिदंशरीरमरतिपरिगतं धतुं न शहोमि. ततः कृत्वानुग्रहं प्रतिपद्यस्व मया समं विषयसेवनं? पश्चात् संजातमनःसमाधी आवां | निर्मलं तपः संयमं च चरिष्यावः. तयापि साहसमवलंब्य प्रगल्भवचनैः स भणितः, महाकुलप्रसूतस्य तव किमिदं युक्तं स्वयं प्रतिपन्नस्य व्रतस्य भंजनं? जीवितमपि सत्पुरुषास्त्यजंति, न पुनर्वतलोपं कुर्वन्ति. ततो महाभाग! मनःसमाधि कृत्वा चिंतय विपयविपाकदारुणत्वं, शीलखंडनस्य नरकादिकं ७८६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy