________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा-बा
मानुष्या मनुष्यसंबंधिनः, तिथंचास्तिर्यग्योनिसंबंधिन उत्पद्यते. ॥१६॥
॥ मूलम् ॥-परीसहा दुविसहा अणेगे । सीयंति जत्था बहुकायरा नरा ॥ से तत्थ पत्ते न ॥७६८।।
वहिज भिक्खू । संगामसीसे इव नागराया ॥ १७॥ व्याख्या-दुर्विषहा दुःखेन सोढुं शक्याः परीपहा अनेके उत्पद्यते इति संबंधः. यत्र येषूपसर्गेपुत्पन्नेषु बहुकातरा नरा अनेके कातराः सीदंति, संयमात् श्लथीभवंति. स साधुस्तत्र परीषहे प्राप्ते उदयमागते सति न व्यथेन्न सत्त्वाच्चलेत्. क इव? नागराज इव गजराज इव. यथा गजराजः संग्रामशीर्षे युद्धप्रकर्षे न विपरीतमुखो भवति. ॥ १७॥
॥ मूलम् ॥-सीउसिणादंसमसगायफासा । आउंका देहं विविहा फुसंति ॥ अकुक्कुओ तस्थ हियासएज्जा । रयाइ खेविज पुरा कडाइ ॥१८॥ व्याख्या-शीतोष्णदंशमशकतृणस्पर्शाः, एते परीषहाः साधोदेहं विविधा आतंका रोगपरीषहाः स्पृशंति, तदा साधुः · अकुक्कुओ इति' कुत्सितं कूजति पीडितः सन्नाक्रंदतीति कुकूजः, न कुकूजोऽकुकूजः, आकंदमकुर्वस्तत्र तान् परीषहानधिसहेत. एवंविधः साधुः पुराकृतानि रजांसि पापानि क्षपयेत् क्षयं नयेत्. ॥ १८ ॥
CAMERASHAN
464KCONCERNECCANCE
For Private And Personal Use Only