________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
S
॥७५९॥
क्रीडां कर्तुमागात, ततो मुनेर्वाक्यश्रवणात् सर्वपरिकरयुक्तो धर्मानुरक्तोऽभृदित्यर्थः ॥ ५८॥
सटोर्क | ॥ मूलम् ॥-उस्ससियरोमकूवो । काऊण य पयाहिणं ॥ अभिवंदिऊण सिरसा। अइयाओ नराहिवो ॥ ५९ ॥ व्याख्या-नराधिपः श्रेणिकोऽतियातो गृहं गतः. किं कृत्वा ? शिरसा मस्तकेनाभिवंद्य मुनिं नमस्कृत्य, पुनः किं कृत्वा ? प्रदक्षिणां कृत्वा प्रदक्षिणां दत्वा. कथंभूतो नराधिपः? 'उस्ससियरोमकूवो 'उच्छ्वसितरोमकूपः, साधोदर्शनाद्वाक्यश्रवणादुल्लसितरोमकूपः ॥ ५९॥
मूलम् ॥-इयरोवि गुणसमिद्धो। तिगुत्तिगुत्तो तिदंडविरओ य ॥ विहंग इव विप्पमुको । | विहरइ वसुहं विगयमोहोत्तिबेमि ॥ ६० ॥ व्याख्या-अथेतरोऽपि श्रेणिकापेक्षयाऽपरोऽपि मुनिरपि वसुधां पृथिवीं विहरति विहारं करोति. कीदृशः सन् ? विमोहः सन् मोहरहितः सन्, अर्थात केवली सन्. कीदृशो मुनिः ? गुणसमृद्धः सप्तविंशतिसाधुगुणसहितः, पुनः कीदृशः? त्रिदंडविरतस्त्रिदंडेभ्यो मनोवाकायानामशुभव्यापारेभ्यो विरतः, पुनः कीदृशः? विहग इव विप्रमुक्तः, पक्षीव कचि-15
मा॥७५९॥ दपिप्रतिबंधरहितो निःपरिग्रह इत्यर्थः इति सुधर्मास्वामी जंबृस्वामिनंप्रति वदति, अहमिति ब्रवीमि,
For Private And Personal Use Only