SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा ॥ मूलम् ॥-सोवीररायवसभो। चइत्ताण मुणी चरे ॥ उदायणो पवइओ। पत्तो गइमणु त्तरं ॥४८॥ व्याख्या-सौवीरराजवृषभः, सौवीराणां देशानां राजा सौवीरराजः, स चासौ वृषभश्च ॥६५७॥x सौवीरराजवृषभो राज्यभारधरणसमर्थः सौवीरदेशेषु भूपमुख्यः, एतादृश उदायननामा राजा वीतभयपत्तनाधीशो मौनं मुनिधर्ममाचरत्. किं कृत्वा ? राज्यं परिहृत्य. स चोदायनः प्रवजितः सन्ननुत्तरां प्रधानां गतिं प्राप्तः ॥४८॥ अत्रोदायनभूपदृष्टांतः-भरतक्षेत्रे सौवीरदेशे वीतभयनामनगरे उदा. यनो नाम राजा, तस्य प्रभावती राज्ञी, तयोज्येष्टपुत्रोऽभीचिनामाभवत्. तस्य भागिनेयः केशीनामाभूत्. स उदायनराजा सिंधुसौवीरप्रमुखषोडशजनपदानां, वीतभयप्रमुखत्रिशतत्रिषष्टिनगराणां, महासेनप्रमुखाणां दशराज्ञां बद्धमुकुटानां छत्राणां चामराणां चैश्वर्य पालयन्नस्ति. इतश्चंपायां न गाँ कुमारनंदी नाम सुवर्णकारोऽस्ति. स च स्त्रीलंपटो यत्र यत्र सुरूपां दारिकां पश्यति जानाति | वा, तत्र तत्र पंचशतसुवर्णानि दत्वा तां परिणयति. एवं च तेन पंचशतकन्याः परिणीताः, एक-| स्तंभं प्रासादं कारयित्वा स ताभिः समं क्रीडति, तस्य च मित्रं नागिलनामा श्रावकोऽस्ति. अथ पं. 5witter-EADARSHAMEx ॥६५७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy