SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक प्रवजितः. कालक्रमेण विविधतपश्चरणेन कालं कृत्वां सनत्कुमारे कल्पे गतः, इति मघवदृष्टांतः. | ॥मूलम् ॥-सणकुमारो मणुस्सिंदो। चकवट्टी महदिए । पुतं रजे ठविऊणं । सोवि राया तवं चरे ॥ ३७ ॥ व्याख्या-पुनः सनत्कुमारो मनुष्येंद्रश्चतुर्थचक्री, सोऽपि तपश्चारित्रं समाचरेदित्यर्थः. किं कृत्वा ? पुत्रं राज्ये स्थापयित्वा. स च कीदृशः? महर्द्धिकः. ॥३७॥अत्र सनत्कुमारदृष्टांतः अस्त्यत्र भरतक्षेत्रे कुरुजंगलजनपदे हस्तिनागपुरं नाम नगरं. तत्राश्वसेनो नाम राजा. तस्य | भार्या सहदेवीनाम्नी. तयोः पुत्रश्चतुर्दशस्वप्नसूचितश्चतुर्थश्चक्रवर्ती सनत्कुमारो नामा. तस्य सूरिकालिंदीतनयेन महेंद्रसिंहेन परममित्रेण समं कलाचार्यसमीपे सर्वकलाभ्यासो जातः. सनत्कुमारो योवनमनुप्राप्तः. अन्यदा वसंतसमयेऽनेकराजपुत्रनगरलोकसहितः सनत्कुमारः क्रीडार्थमुद्याने गतः. तत्राश्वक्रीडां कर्तुं सर्वे कुमारा अश्वारूढाः स्वं स्वमश्वं खेलयंति. सनत्कुमारोऽपि जलधिकल्लोलाभिधानं तुरंगमारूढः समकालं सर्वेः कुमारैः सहः ततो विपरीतशिक्षितेन कुमाराश्वेन तथा गतिः कृता, यथाऽपरकुमाराश्वाः प्राक् पतिताः, स कुमाराश्वस्त्वदृश्यीभूतः.ज्ञातवृत्तांतो राजा सपरिकरस्तत्पृष्टे *ॐ145-150x55 ॥६०४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy