SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा- सटीक ॥ ५९६ कृता. न पुनरेवं करिष्यामः. तत उपशांतकोपो ज्वलनप्रभः स्वस्थानं गतः. जन्हुकुमारेण भ्रातॄणां | पुर एवं भणितं, एषा परिखा दुर्लंघ्यापि जलविरहिता न शोभते, तत इमां नीरेण पूरयामः, ततो दंडरत्नेन गंगां भित्वा जन्हना जलमानीतं भृता च परिखा. तज्जलं नागभवनेषु प्राप्तं, जलप्रवाहसंत्रस्तं नागनागिनीप्रकरमितस्ततः प्रणश्यंतं प्रेक्ष्य प्रदत्तावधिज्ञानोपयोगः कोपानलज्वालामालाकुलो | ज्वलनप्रभ एवमचिंतयत्, यदहो! एतेषां जन्हुकुमारादीनां महापापानां मयैकवारमपराधः क्षांतः, पुनरधिकतरमुपद्रवः कृतः, ततो दर्शयाम्येषामविनयफलं. इति ध्यात्वा ज्वलनप्रभेण तद्वधार्थं नयनविषा महाफणिनः प्रेषिताः, तैः परिखाजलांतर्निर्गत्य नयनैस्ते कुमाराः प्रलोकिताः, भश्मराशी| भूताश्च सर्वेऽपि सगरसुताः. तथाभृतांस्तान् वीक्ष्य सैन्ये हाहारवो जातः, मंत्रिणोक्तमेते तु तीर्थरक्षा कुर्वतोऽवश्यभावितयेमामवस्था प्राप्ताः सद्गतावेव गता भविष्यंतीति किं शोच्यते? अतस्त्वरितमितः प्रयाणं क्रियते, गम्यते च महाराजचक्रिसमीपं. सर्वसैन्येन मंत्रिवचनमंगीकृतं, ततस्त्वरितप्रयाणकरणेन क्रमात्प्राप्त स्वपुरसमीपे. ततः सामंतामात्यादिभिरेवं विचारितं समस्तपुत्रवधोदंतः कथं च %AA-BHISHASHASHA5% ॥५९६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy