SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie O उत्तरा सटीक ॥५९३।। EKHE+SHREE णादित्ययशा नृपोऽभिषिक्तः, इति भरतदृष्टांतः ॥ ३४ ॥ पुनस्तदेव महापुरुषदृष्टांतेन दृढयति ॥ मूलम् ॥-सगरोवि सागरंतं । भारहवासं नराहिवो ॥ इस्सरियं केवलं हिच्चा । दयाए परिनिव्वुओ॥ ३५॥ व्याख्या-हे मुने! सगरोऽपि सगरनामा नराधिपोऽपि दयया संयमेन परिनिर्वृतः, कर्मभ्यो मुक्तः. अत्र नराधिपशब्देन अपिशब्दाद् द्वितीयश्चक्रवर्त्यधिकारादनुक्तोऽपि चक्येव गृह्यते. किं कृत्वा? भारतवर्ष भरतक्षेत्रमाद्भरतक्षेत्रराज्यं त्यक्त्वा, पुनः केवलं परिपूर्णमेकच्छत्ररूपमैश्वयं हित्वा त्यक्त्वा, कीदृशं भरतवर्ष ? सागरांतं समुद्रांतसहितं, चुल्लहिमवत्पर्वतं यावद्विस्तीर्णं भरतक्षे राज्यमित्यर्थः ॥३५॥ अत्र सगरचक्रवर्तिदृष्टांतः, तथाहि-अयोध्यायां नगर्यामीक्ष्वाकुकुलोद्भवो जितशत्रुनृपोऽस्ति, तस्य भार्या विजयानाम्न्यस्ति. सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते, तस्य यशोमतीनाम्नी भार्यास्ति. जितशत्रुराझ्या विजयानाम्न्या चतुर्दशमहास्वप्नसूचितः पुत्रः प्रसूतः, तस्य नामाऽजित इति दत्तं, स च द्वितीयस्तीर्थकर इति. सुमित्रयुवराजपत्न्या यशोमत्या सगरना- मा द्वितीयश्चक्रवर्ती प्रसूतः. तो द्वावपि यौवनं प्राप्तौ, पितृभ्यां कन्याः परिणायितौ. कियता काले CALCHALCO4 ॥५९३ ॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy