________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
है| वीतरागधर्मे निःक्रांतः समागतः, संसाराद् गृहाच्च निःसृतः, जैनी दीक्षामाश्रितः, किं कृत्वा ? ||
सटोक राज्यं त्यक्त्वा. ॥ १९ ॥
॥ मूलम् ॥-चिच्चा रजं पवईओ। खत्तिओ परिभासई । जहा ते दीसई रूवं । पसन्नं ते तहा मणो ॥ २०॥ व्याख्या-अत्र वृद्धसंप्रदायोऽयमस्ति-स संयतराजर्षिर्गर्दभालिनामाचार्यस्य शिप्यो जातः, पश्चाद्गीतार्थो जातः, समस्तसाध्वाचारविचारदक्षो गुरोरादेशेनैकाकी विहरन्नेकस्मिन् ग्रामे एकदा समागतोऽस्ति. तत्र ग्रामे क्षत्रियराजर्षिर्मिलितः, स क्षत्रिसाधुः संयतमुनिं प्रतिभाषते वदति. परं स क्षत्रियमुनिः कीदृशोऽस्ति? स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युत्वैकस्मिन् क्षत्रियकुले समुत्पन्नः, तत्र कुतश्चित्तथाविधनिमित्तदर्शनादुत्पन्नजातिस्मृतिस्ततः समुत्पन्नवैराग्यो राज्यं त्यक्त्वा प्रबजितः स क्षत्रियो राजर्षिरनिर्दिष्टनामा क्षत्रियजातिविशिष्टत्वात् क्षत्रियमुनिर्जातिस्मृतिज्ञानवान्, स संयतं मुनिं दृष्ट्वा परिभाषते संयतस्य ज्ञानपरीक्षां कर्तुं. संयतमुनिमित्यध्याहारः. किं ॥५८०॥ परिभाषते? तदाह-हे साधो! यथा येन प्रकारेण ते तव रूपं बाह्याकारं दृश्यते, तथा तेन प्र
For Private And Personal Use Only