________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटोक
॥५४३॥ ५
व्याख्या–स निग्रंथो भवेत, यः स्त्रीभिः सार्धं निषिद्या, निषीदत्यस्यामिति निषिद्या, पट्टिकापीठफलकचतुष्ककाद्यासनं, तां निषिद्यां गतः स्थितः सन् विहर्ता अवस्थाता न भवेत्. कोऽर्थः? यः स्त्रीभिः सहकस्मिन्नासने नोपविशेत् स निग्रंथो भवेत्. अत्रायं संप्रदायः-यत्रासने पुरा स्त्री उपविष्टा भवति, तत आसनात् स्त्रियामुत्थितायां सत्यां मुहूर्तादनंतरं तदासनं साधोरुपविशनयोग्य भवति. 'तं कहमिति चेत् आयरिय आह' अनयोः पदयोरर्थः पूर्ववत्. 'निग्गंथस्स खलु इत्थीहिं.' निग्रंथस्य खलु स्त्रीभिः साध निषिद्यां गतस्य प्राप्तस्य विहरमाणस्य तत्र स्थितस्य ब्रह्मचारिणो ब्रह्मचयें शंकादयो दोषा उत्पद्यते. तस्मात्कारणात्खलु निश्चयेन निग्रंथः स्त्रीभिः सहकत्रासने गतः प्राप्तः सन्नो विहरेन्नोपविशेत्. ॥३॥ इति तृतीयं ब्रह्मचर्यस्थानं, एषा तृतीया वाटिका. ॥३॥
॥ मूलम् ॥-नो निग्गंथे इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोइत्ता निज्झाइत्ता हवइ, से निग्गंथे. तं कहमिति चेत् आयरिय आह-निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएमाणस्स निज्झायमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा
*॥५४३॥
For Private And Personal Use Only