________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
साध्वनुष्ठाने यत्नं कुरुते इति संयतः. पुनः कीदृशः? सुव्रतः शोभनव्रतधारकः, पुनर्यः सहितः सर्वजीवेषु हितान्वेषी, अथवा ज्ञानदर्शनाभ्यां सहितः. पुनर्य आत्मानं कर्ममलापहारेण शुद्धं गवेष-| यतीत्यात्मगवेषकः. पुनर्यस्तपस्वी. ॥५॥
॥ ५२५॥
॥ मूलम् ॥-जे पुण जहाइ जीवियं । मोहं वा कसिणं निअच्छइ ॥ नरनारिं पजहे सया तवस्सी । न य कोऊहलं उवसेवई स भिक्खू ॥ ६ ॥ व्याख्या-यः पुनस्तं हेतुं जहाति. तं कं? येन हेतुना येन कृतेन जीवितं संयमजीवितव्यं जहाति. पुनर्येन कृत्वा मोहं वा मोहनीयकर्म क| षायनोकषायरूपं कृत्स्नं संपूर्ण नियच्छति बध्नाति. तादृशं नरं नारी स्त्री सदा सर्वदा प्रजह्यात्.
कोऽर्थः? येन पुरुषस्त्र्यादिना कृत्वा संयमं याति, येन कृत्वा मोहकर्मोदयः स्यात्, तंप्रति यस्त्यजेत् | स भिक्षुरित्यर्थः. पुनर्यस्तपस्वी तपोनिरतः, पुनर्यः कौतूहलं स्यादिविषयं, अथवा नाटकेंद्रजालादिकौतुकं न चोपसेवते, स भिक्षुरित्युच्यते. ॥ ६ ॥
CLACEAAAC-AL
ॐॐॐ
५२५॥
For Private And Personal Use Only