SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * - उत्तरा सटोकं -- ॥ ५१५॥ - - द्रविहारत्वेन यत्र यत्र रोचंते तत्र तत्रामोदमाना भ्राम्यंति,एवमेतेऽप्यभिष्वंगाभावात् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यांतीत्याशयः. पुनः कथंभूतास्ते जीवाः? लघुभूतावहारिणः, लघुर्वायुस्तद्भूतास्तदुपमाः संतो विहरंतीत्येवंशीला लघुभूतविहारिणः. अथवा लघुश्चासौ भृतश्च लघुभूतो वायुस्तद्वद्विहरंतीत्येवंशीला लघुभूतविहारिणः, वायुरिवाऽप्रतिबद्धविहारिणः ॥ ४४ ॥ ॥ मूलम् ॥-इमे य बद्धा फंदंति । मम हत्थजमागया ॥ वयं च सत्ता कामेसु । भविस्सामो जहा इमे ॥१५॥ व्याख्या-हे आर्य! इमे च प्रत्यक्षाः शब्दरूपरसगंधस्पर्शादयः पदार्था बद्धा नियंत्रिताः सुदृढीकृता मम हस्ते पुनस्तव हस्ते आगता अपि फंदति स्पंदंति, अस्थितिधर्मतया गत्वरा दृश्यंते, सुरक्षिता अपि यांतीत्यर्थः. एतादृशेषु च गत्वरेषु कामेष्वज्ञा वयं सक्ताः संजाता लिप्ता जाताः. तस्मादेतेषु गत्वरेषु कः स्नेहः? हे स्वामिन्नावां यथेमे पुरोहितादयश्चत्वारो जातास्तथा भविष्यामः ॥४५॥ ॥ मूलम् ॥-सामिसं कुललं दिस्स । बज्झमाणं निरामिसं ॥ आमिसं सवमुज्झित्ता। - - - - For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy