________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा ।। ५०९ ।।
www.kobatirth.org
णि ! भुजंगः सर्पस्तनुजां शरीरादुत्पन्नां निर्मोचनीं निर्मोकं कंचुकं हित्वा मुक्तः सन् प्रयाति, एवमेतो जातौ पुत्रौ भोगान् प्रजहीतः तौ भोगत्यागिनौ पुत्रौप्रत्यहमेकाकी सन् कथं नानुगमिष्यामि ? पुत्राभ्यां विहीनस्यैकाकिनो मम कीदृशो गृहवासः ? धन्यौ तौ पुत्रो यो तरुणावेव कंचुकमिव विषयसुखं त्यक्त्वा भुजंगमवद् व्रजत इत्यर्थः ॥ ३४ ॥
॥ मूलम् ॥ - छिंदित्तु जालं अबलंव रोहिया । मच्छा जहा कामगुणे पहाय ॥ धोरेयसीला तवसा उयारा । धीरा हु भिक्खायरियं चरंति ॥ ३५ ॥ व्याख्या - हे ब्राह्मणि! धीरा धैर्यवंतो जना हु इति निश्चयेन भिक्षाचर्यां भिक्षावृत्तिं साधुधर्मं चरंति कीदृशा धीराः ? तपसा उदाराः, अथवा कीदृशीं भिक्षाय ? तपसा उदारां, तपसा प्रधानां, प्राकृतत्वाद्विभक्तिलिंगव्यत्ययः पुनः कीदृशा धीराः ? धौरेयशीलाः, धौरेयाणां धुरंधराणामिव शीलमुदृढभारोद्वहनसामर्थ्यं येषां ते धौरेयशीलाः. किं कृत्वा धीरा भिक्षाचर्यां चरंति ? कामगुणान् प्रहाय प्रकर्षेण हित्वा के किं यथा? यथाशब्द इवार्थे, के किमिव ? रोहिता मत्स्या रोहितजातीयमीना अबलं जीर्णं जालमिव यथा बलिष्टमत्स्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५०९ ॥