SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie उत्तरा सटीक ॥४९९॥ ॥ मूलम् ॥-नो इंदियगिज्झु अमुत्तभावा । अमुत्तभावावि य होइ निच्चो ॥ अज्झत्थहेऊ निययस्स बंधो । संसारहेउं च वयंति बंधं ॥ १८॥ व्याख्या-हे तात! अयमात्मा अमूर्तभावादिद्रियग्राह्यो नो इति नास्ति, शब्दरूपरसगंधस्पर्शादीनामभावत्वममूर्तत्वं, तस्मादमूर्तत्वादिंद्रियग्राह्यो नास्ति. योऽमूतों भवति स इंद्रियग्राह्योऽपि न भवति, य इंद्रियग्राह्यो भवति सोऽमूर्तोऽपि न संभवति, यथा घटादिः. पुनरयं जीवोऽमूर्तभावादपि नित्यो भवति. यद् द्रव्यत्वे सत्यमूर्त तन्नि| त्यं, यथा व्योम. अथ कदाचित् कश्चिद्वक्ष्यति चेदयममूर्त आत्मा तदा कथमस्य बंधः? तत्रोत्तरं | वदतः-अस्य जीवस्य शरीरे बंधो नियतो निश्चितोऽध्यात्महेतुर्वर्तते. कोऽर्थः? आत्मन्यधीकृत्य भवतीत्यध्यात्म मिथ्यात्वाविरतिकषाययोगादिकं, तदेव हेतुः कारणं यस्य सोऽध्यात्महेतुः. अस्य जीवस्य यः शरीरे बंधो भवति स मिथ्यात्वादिभिहेंतुभिरेव स्यादिति. यथा अमूर्तस्याप्याकाशस्य घटादाविव घटोत्पादनकारणैर्घटे आकाशस्य धंधो जायते, तथात्मनः शरीरे बंध इत्यर्थः. च पुनबंधाः संसारस्य हेतुं भवभ्रमणस्य कारणं संबंधं वदंति. यावच्छरीरेण बद्धस्तावदयं जीवो भवभ्रमणं क 5 ॥ ४९९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy