SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४५६॥ | कृतः. ब्रह्मदत्तः सर्वसैन्यसहितो दीर्घनृपोपरि चालतः, अविच्छिन्नप्रयाणैश्च कांपिल्यपुरे प्राप्तः. दीघनृपेणापि कटकादीनां दूतः प्रेषितः, परं तैस्तु निर्भर्त्सतः स दूतः स्वस्वामिसमीपे गतः; ब्रह्मदत्तसैन्येन कांपिल्यपुरं समंताद्वेष्टितं. ततो दीर्घनृपेणैवं चिंतितं, कियत्कालमस्माभिर्बिलप्रविष्टैरिव स्थेयं? साहसमवलंब्य नगरात्स्वसैन्यपरिवृतो दीर्घनृपो निर्गत्य संमुखमायातः. ब्रह्मदत्तदीर्घनृपसैन्ययो|रः संग्रामः प्रवृत्तः, क्रमाद् ब्रह्मदत्तसैन्येन दीर्घनृपसैन्यं भग्नं. अथ दीर्घनृपः स्वयमुत्थितः, ब्रह्मदत्तोऽपि तमायातं वीक्ष्य प्रदीप्तकोपालनस्तदभिमुखं चलितः, तयोर्द्वयोर्युद्धं लग्नं. अनेकैरायुधैनिक्षिप्तैर्न तयोः संग्रामरसः संपूर्णो बभूव. ब्रह्मदत्तेन ततश्चक्रं मुक्तं. चक्रेण दीर्घनृपमस्तकं छिन्नं. ततो जयत्येष चक्रवर्तीत्युच्छलितः कलकलः, सिद्धगंधर्वदेवैर्मुक्ता पुष्पवृष्टिः, उक्तं च उत्पन्नोऽयं द्वादशश्चक्री. ततो जनपदलोकैः स्तूयमानो नारीवृंदकृतमंगलः कुमारः स्वमंदिरे प्रविष्टः, कृतश्च सकलसामंतैर्ब्रह्मदत्तस्य चक्रवर्त्यभिषेकः. चक्रवर्तित्वं पालयन् ब्रह्मदत्तः सुखेन कालं निर्गमयति. अन्यदा चक्रवर्तिनः पुरो नटेन नाट्यं कर्तुमारब्धं, स्वदास्या अपूर्व कुसुमदामगंडं हस्ते ढौकितं. तच्च प्रेक्षतो TECARCIENCECACACA ॥४५६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy